蚁垤《罗摩衍那》 · 篇 6.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
6.95.1
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ ६.९५.१ ॥
在楞伽城,家家户户,罗波那听见了受苦的罗刹女们悲切的哭声。
6.95.2
स तु दीर्घं विनिःश्वस्य मुहूर्तं ध्यानमास्थितः।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ ६.९५.२ ॥
他长长地叹了一口气,沉思了片刻;随后,罗波那极度愤怒,形貌变得可怖。
6.95.3
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः।
राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्तिमान् ॥ ६.९५.३ ॥
他咬着嘴唇,双目因愤怒而通红,连罗刹们也不敢直视,宛如化身的劫火。
6.95.4
उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः।
क्रोधाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ ६.९५.४ ॥
罗刹之王对身边的罗刹们说话;因愤怒,他的言语含混不清,仿佛要用目光将他们烧尽。
6.95.5
महोदरं महापार्श्वं विरूपाक्षं च राक्षसम्।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ६.९५.५ ॥
"摩诃德罗、大胁与毗楼博叉,罗刹们!奉我之命,告诉大军立即出发。"
6.95.6
तस्य तद् वचनं श्रुत्वा राक्षसास्ते भयार्दिताः।
चोदयामासुरव्यग्रान् राक्षसांस्तान् नृपाज्ञया ॥ ६.९५.६ ॥
那些罗刹听了他的话,心怀恐惧,奉国王之命去催促那些沉着不乱的罗刹。
6.95.7
ते तु सर्वे तथेत्युक्त्वा राक्षसा भीमदर्शनाः।
कृतस्वस्त्ययनाः सर्वे ते रणाभिमुखा ययुः ॥ ६.९५.७ ॥
那些样貌可怖的罗刹说道:“就照此办理。”他们举行吉祥仪式后,面向战场出发了。
6.95.8
प्रतिपूज्य यथान्यायं रावणं ते महारथाः।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ६.९५.८ ॥
那些大战车武士依礼回敬罗波那,合掌站立,都渴望主人获胜。
6.95.9
ततोवाच प्रहस्यैतान् रावणः क्रोधमूर्च्छितः।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥ ६.९५.९ ॥
于是罗波那被愤怒所笼罩,笑着对他们,对摩诃乌陀罗、摩诃波湿缚和罗刹毗樓钵叉说道。
6.95.10
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ॥ ६.९५.१० ॥
今日,我以从弓中射出、如劫末太阳般的箭矢,将罗摩与罗什曼那送往阎摩之处。
6.95.11
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ६.९५.११ ॥
对于伽罗、鸠槃羯罗、普拉哈斯塔和因陀罗耆的仇,我今日将以杀死敌人来报复。
6.95.12
नैवान्तरिक्षं न दिशो न च द्यौर्नापि सागराः।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥ ६.९५.१२ ॥
被我箭矢之云所遮蔽,天空、四方、天界,甚至大海,都将不再显现。
6.95.13
अद्य वानरमुख्यानां तानि यूथानि भागशः।
धनुषा शरजालेन वधिष्यामि पतत्त्रिणा ॥ ६.९५.१३ ॥
今日我将以弓、以箭网、以带羽之箭,逐部将那些猴王的军队一一歼灭。
6.95.14
अद्य वानरसैन्यानि रथेन पवनौजसा।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥ ६.९५.१४ ॥
今日我将以疾如风的战车,借由从我弓之大海涌起的箭浪,搅动猴子的大军。
6.95.15
व्याकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम्।
अद्य यूथतटाकानि गजवत् प्रमथाम्यहम् ॥ ६.९५.१५ ॥
今日我将如象入池塘般,搅乱那群猴的池塘——其中莲花般的面容盛开,闪耀着莲蕊的光彩。
6.95.16
सशरैरद्य वदनैः संख्ये वानरयूथपाः।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥ ६.९५.१६ ॥
今日战场上,那些面容被箭射穿的猴群统领,将装点大地,如同带着茎的莲花。
6.95.17
अद्य यूथप्रचण्डानां हरीणां द्रुमयोधिनाम्।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ ६.९५.१७ ॥
今日战场上,我将以一支离弦之箭,将那些以树为武器作战的凶猛猴群首领,一百一百地射穿。
6.95.18
हतो भ्राता च येषां वै येषां च तनयो हतः।
वधेनाद्य रिपोस्तेषां करोम्यश्रुप्रमार्जनम् ॥ ६.९५.१८ ॥
兄弟被杀、儿子被杀的人们,今日我将以杀死敌人,为他们拭去眼泪。
6.95.19
अद्य मद्बाणनिर्भिन्नैः प्रस्तीर्णैर्गतचेतनैः।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ॥ ६.९५.१९ ॥
今日,以被我的箭射穿、散落一地、失去生命的猴子,我将在战场上仔细察看并铺满大地。
6.95.20
अद्य काकाश्च गृध्राश्च ये च मांसाशिनोऽपरे।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शराहतैः ॥ ६.९५.२० ॥
今日,我将以被我的箭射倒的敌人的肉,使所有乌鸦、秃鹫和其他食肉者饱足。
6.95.21
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः।
अनुप्रयान्तु मां युद्धे येऽत्र शिष्टा निशाचराः ॥ ६.९५.२१ ॥
请迅速准备我的战车,快速取来我的弓;让此地剩下的夜行者跟随我参战。
6.95.22
तस्य तद् वचनं श्रुत्वा महापार्श्वोऽब्रवीद् वचः।
बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति ॥ ६.९५.२२ ॥
摩诃波尔奢听到他的话,便对站在那里的众将领说:"让军队加速行动。"
6.95.23
बलाध्यक्षास्तु संयुक्ता राक्षसांस्तान् गृहे गृहे।
चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः ॥ ६.९५.२३ ॥
于是众将领会合起来,逐屋催促那些罗刹,在楼卡城中四处奔走,他们勇猛迅捷。
6.95.24
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः।
नदन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ ६.९५.२४ ॥
片刻之后,外形可怖的罗刹们冲了出来,怒吼着,面目狰狞,双臂持着各式兵器。
6.95.25
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैर्हलैः।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ ६.९५.२५ ॥
用刀剑、钹斧、三叉戟、战锤、木杵与犁具,用锋利的长矛,以及沉重的古德木格拉。
6.95.26
यष्टिभिर्विविधैश्चक्रैर्निशितैश्च परश्वधैः।
भिन्दिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥ ६.९५.२६ ॥
用各式木棒、飞轮、锋利的战斧、投枪、百杀器,以及其他精良兵器。
6.95.27
अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया।
रथानां नियुतं साग्रं नागानां नियुतत्रयम् ॥ ६.९५.२७ ॥
于是,奉罗波那之命,四位统帅带来超过一尼优多的战车和三尼优多的象。
6.95.28
अश्वानां षष्टिकोट्यस्तु खरोष्ट्राणां तथैव च।
पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात् ॥ ६.९५.२८ ॥
六千万匹马,以及同样数量的驴与骆驼,还有无数步兵,都奉国王之命出发了。
6.95.29
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरःस्थिताम्।
एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम् ॥ ६.९५.२९ ॥
统帅们将国王的军队布置在前列;与此同时,御者停下了那辆战车。
6.95.30
दिव्यास्त्रवरसम्पन्नं नानालंकारभूषितम्।
नानायुधसमाकीर्णं किङ्किणीजालसंयुतम् ॥ ६.९५.३० ॥
那辆战车配备着上好的神圣兵器,装饰着各式饰物,满载各种兵器,并悬挂着叮当作响的铃铛网。
6.95.31
नानारत्नपरिक्षिप्तं रत्नस्तम्भैर्विराजितम्।
जाम्बूनदमयैश्चैव सहस्रकलशैर्वृतम् ॥ ६.९५.३१ ॥
它镶嵌着许多宝石,以宝石柱子增添光彩,并被一千个金制宝瓶环绕。
6.95.32
तं दृष्ट्वा राक्षसाः सर्वे विस्मयं परमं गताः।
तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः ॥ ६.९५.३२ ॥
众罗刹看到它,都极为惊异。罗刹之王罗波那一见之下,猛然起身。
6.95.33
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम्।
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्।
आरुरोह तदा भीमं दीप्यमानं स्वतेजसा ॥ ६.९५.३३ ॥
那辆快车如同亿万太阳,又如熊熊烈火,驾着八匹马,并有御者。于是罗波那登上了这辆可怖的战车,它以自身的光辉闪耀。
6.95.34
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः।
रावणः सत्त्वगाम्भीर्याद् दारयन्निव मेदिनीम् ॥ ६.९५.३४ ॥
于是罗波那被众多罗刹簇拥,猛然出发,仿佛以其力量的深沉撕裂大地。
6.95.35
ततश्चासीन्महानादस्तूर्याणां च ततस्ततः।
मृदङ्गैः पटहैः शङ्खैः कलहैः सह रक्षसाम् ॥ ६.९५.३५ ॥
于是四处响起巨大的乐器之声,鼓、大鼓与法螺齐鸣,并伴随罗刹的战吼。
6.95.36
आगतो रक्षसां राजा छत्रचामरसंयुतः।
सीतापहारी दुर्वृत्तो ब्रह्मघ्नो देवकण्टकः।
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ॥ ६.९५.३६ ॥
罗刹之王在华盖与牦牛尾拂的簇拥下到来——他是劫走悉多的人,是邪恶之徒,是杀害婆罗门者,是诸天的荆棘。人们听见争斗的喧声:他是来与罗怙族中最杰出的英雄交战的。
6.95.37
तेन नादेन महता पृथिवी समकम्पत।
तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात् ॥ ६.९५.३७ ॥
那巨大的吼声使大地全部震动。猴众突然听到这声音,惊恐地四散逃奔。
6.95.38
रावणस्तु महाबाहुः सचिवैः परिवारितः।
आजगाम महातेजा जयाय विजयं प्रति ॥ ६.९५.३८ ॥
然而大臂、大威光的罗波那,在大臣们的簇拥下,为求胜利而向前进发。
6.95.39
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ।
विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा ॥ ६.९५.३९ ॥
得到罗波那许可后,摩诃波舍和摩诃迪罗,以及不可战胜的毗卢波叉,随即登上战车。
6.95.40
ते तु हृष्टाभिनर्दन्तो भिन्दन्त इव मेदिनीम्।
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ॥ ६.९५.४० ॥
他们欢喜地咆哮,仿佛要撕裂大地,发出可怕的吼声,怀着求胜之心出发了。
6.95.41
ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥ ६.९५.४१ ॥
于是光辉的罗波那被罗刹大军环绕,举起弓,出阵迎战,如同时间、死神与阎摩。
6.95.42
ततः प्रजविताश्वेन रथेन स महारथः।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ ६.९५.४२ ॥
于是那位大车士乘坐奔驰的骏马战车,从那道门出去,前往罗摩与罗什曼那所在之处。
6.95.43
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः।
द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी ॥ ६.९५.४३ ॥
那时太阳失去了光辉,四方被黑暗笼罩,飞鸟发出可怕的鸣叫,大地也震动起来。
6.95.44
ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः।
ध्वजाग्रे न्यपतद् गृध्रो विनेदुश्चाशिवं शिवाः ॥ ६.९५.४४ ॥
天空降下血雨,马匹踉跄跌倒,一只秃鹫落在旗杆顶端,豺狼发出不祥的嚎叫。
6.95.45
नयनं चास्फुरद् वामं वामो बाहुरकम्पत।
विवर्णवदनश्चासीत् किंचिदभ्रश्यत स्वनः ॥ ६.९५.४५ ॥
他的左眼跳动,左臂颤抖,脸色变得苍白,声音也有些颤抖失常。
6.95.46
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ ६.९५.४६ ॥
当十首罗刹罗婆那出征作战之时,这些预示他在战场上死亡的征兆出现了。
6.95.47
अन्तरिक्षात् पपातोल्का निर्घातसमनिःस्वना।
विनेदुरशिवा गृध्रा वायसैरभिमिश्रिताः ॥ ६.९५.४७ ॥
一颗流星从天空坠落,声响如同霹雳;不祥的秃鹫与乌鸦混杂一处哀鸣。
6.95.48
एतानचिन्तयन् घोरानुत्पातान् समवस्थितान्।
निर्ययौ रावणो मोहाद् वधार्थं कालचोदितः ॥ ६.९५.४८ ॥
罗婆那不顾这些已经出现的可怕征兆,被时间驱使,因迷惑而出发,走向自己的毁灭。
6.95.49
तेषां तु रथघोषेण राक्षसानां महात्मनाम्।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ ६.९५.४९ ॥
随着那些伟大的罗刹战车的轰鸣,猴族大军也向战场挺进。
6.95.50
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम्।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ ६.९५.५० ॥
猴族与罗刹之间随即爆发了激烈的大战;他们怒火中烧,彼此挑战,都渴望获胜。
6.95.51
ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः।
वानराणामनीकेषु चकार कदनं महत् ॥ ६.९५.५१ ॥
于是十首罗波那勃然大怒,以饰金的箭矢在猴族军阵中大加屠戮。
6.95.52
निकृत्तशिरसः केचिद् रावणेन वलीमुखाः।
केचिद् विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ॥ ६.९५.५२ ॥
有的猴子被罗波那斩去头颅,有的心口被劈裂,有的双耳被削去。
6.95.53
निरुच्छ्वासा हताः केचित् केचित् पार्श्वेषु दारिताः।
केचिद् विभिन्नशिरसः केचिच्चक्षुर्विनाकृताः ॥ ६.९५.५३ ॥
有的断气而死,有的两侧被撕裂,有的头颅被砸碎,有的双眼被毁。
6.95.54
दशाननः क्रोधविवृत्तनेत्रो
यतो यतोऽभ्येति रथेन संख्ये।
ततस्ततस्तस्य शरप्रवेगं
सोढुं न शेकुर्हरियूथपास्ते ॥ ६.९५.५४ ॥
十首罗波那怒目圆睁,乘车在战场上所到之处,那些猴族统帅都无法承受他箭矢的猛烈攻势。