Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 6.99

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

6.99.1

महोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः।
तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ ६.९९.१ ॥

マホーダラとマハーパールシヴァが殺されたのを見て、そして英雄ヴィルーパークシャもまた殺されたとき、大力のラーヴァナは……

6.99.2

आविवेश महान् क्रोधो रावणं तु महामृधे।
सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ ६.९९.२ ॥

大戦において、ラーヴァナの内に大いなる怒りが入り込んだ。彼は御者を急かし、この言葉を語った。

6.99.3

निहतानाममात्यानां रुद्धस्य नगरस्य च।
दुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ६.९९.३ ॥

殺された大臣たちと包囲された都の苦しみを、あのラーマとラクシュマナを殺して、必ず取り除いてみせよう。

6.99.4

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।
प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥ ६.९९.४ ॥

戦いで私はラーマの木を切り倒そう。それはシーターという花と実を実らせ、その枝はスグリーヴァ、ジャーンバヴァーン、クムダ、ナラである。

6.99.5

द्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः।
हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ६.९९.५ ॥

ドヴィヴィダとマインダ、アンガダとガンダマーダナ、ハヌマーンとスシェーナ、そして猿軍のすべての指揮者たち。

6.99.6

स दिशो दश घोषेण रथस्यातिरथो महान्।
नादयन् प्रययौ तूर्णं राघवं चाभ्यधावत ॥ ६.९९.६ ॥

その大戦車兵は、戦車の轟音で十方を響かせながら速やかに進み、ラーグハヴァ(ラーマ)へと突進した。

6.99.7

पूरिता तेन शब्देन सनदीगिरिकानना।
संचचाल मही सर्वा त्रस्तसिंहमृगद्विजा ॥ ६.९९.७ ॥

その轟音に満たされ、川や山や森を含む大地全体が震え、獅子や鹿や鳥たちは恐れおののいた。

6.99.8

तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्।
निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ॥ ६.९९.८ ॥

彼は極めて恐ろしい闇の武器を放った。それはすべての猿を焼き、彼らは四方に倒れた。

6.99.9

उत्पपात रजो भूमौ तैर्भग्नैः सम्प्रधावितैः।
नहि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ६.९९.९ ॥

散り散りに逃げ惑う彼らのせいで地面から砂塵が舞い上がった。ブラフマーが自ら作ったその塵に、彼らは耐えられなかった。

6.99.10

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।
दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ ६.९९.१० ॥

ラーヴァナの多くの軍勢が、最上の矢によって幾百と打ち砕かれるのを見て、ラーガヴァは毅然と立っていた。

6.99.11

ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्।
स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ६.९९.११ ॥

するとラークシャサの中の虎は猿の軍勢を追い散らし、そこに不敗のラーマが立っているのを見た。

6.99.12

लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा।
आलिखन्तमिवाकाशमवष्टभ्य महद् धनुः ॥ ६.९९.१२ ॥

弟ラクシュマナと共に、ヴァーサヴァ(インドラ)と並ぶヴィシュヌのように、大弓を持ち、まるで空を描くかのように立っていた。

6.99.13

पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्।
ततो रामो महातेजाः सौमित्रिसहितो बली ॥ ६.९९.१३ ॥

蓮の花びらのように広い目と長い腕を持ち、敵を制する、大いなる輝きと力を備えたラーマは、そのときサウミトリ(ラクシュマナ)と共にいた。

6.99.14

वानरांश्च रणे भग्नानापतन्तं च रावणम्।
समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ ६.९९.१४ ॥

戦いでヴァーナラたちが散り散りになり、ラーヴァナが突進してくるのを見て、ラーガヴァは喜び、弓の中央を握った。

6.99.15

विस्फारयितुमारेभे ततः स धनुरुत्तमम्।
महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ ६.९९.१५ ॥

そして彼はその優れた弓を大きく引き絞り始めた。その勢いと轟音は大地を裂くかのようであった。

6.99.16

रावणस्य च बाणौघै रामविस्फारितेन च।
शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ॥ ६.९९.१६ ॥

ラーヴァナの矢の雨と、ラーマが弓を大きく引き絞る音によって、そのとき幾百もの羅刹が倒れた。

6.99.17

तयोः शरपथं प्राप्य रावणो राजपुत्रयोः।
स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ ६.९९.१७ ॥

二人の王子の矢の道に至ったラーヴァナは、月と太陽のそばにいるラーフのように輝いた。

6.99.18

तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।
मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ ६.९९.१८ ॥

まず彼と戦うことを望んだラクシュマナは、弓を引き絞り、炎の舌のような鋭い矢を放った。

6.99.19

तान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।
बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ ६.९९.१९ ॥

大いなる輝きを持つラーヴァナは、弓を持つラクシュマナが空へ放ったばかりの矢を、自らの矢で防いだ。

6.99.20

एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश।
लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥ ६.९९.२० ॥

一本の矢で一本を、三本で三本を、十本で十本を、ラクシュマナの矢を切り落とし、手の鮮やかさを示した。

6.99.21

अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः।
आससाद रणे रामं स्थितं शैलमिवापरम् ॥ ६.९९.२१ ॥

サウミトリ(ラクシュマナ)を越えて進んだ、戦いの勝者ラーヴァナは、戦場で別の山のように立つラーマのもとへ至った。

6.99.22

स राघवं समासाद्य क्रोधसंरक्तलोचनः।
व्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः ॥ ६.९९.२२ ॥

ラーガヴァ(ラーマ)のもとに至った羅刹王ラーヴァナは、怒りに目を赤くして矢の雨を放った。

6.99.23

शरधारास्ततो रामो रावणस्य धनुश्च्युताः।
दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ ६.९९.२३ ॥

ラーマはラーヴァナの弓から放たれた矢の奔流が速やかに迫るのを見て、すぐにバッラ矢を取った。

6.99.24

ताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।
दीप्यमानान् महाघोराञ्छरानाशीविषोपमान् ॥ ६.९९.२४ ॥

するとラーガヴァは鋭いバッラ矢でその矢の奔流を断ち切った。それは輝き、極めて恐ろしく、毒蛇のような矢であった。

6.99.25

राघवो रावणं तूर्णं रावणो राघवं तथा।
अन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः ॥ ६.९९.२५ ॥

ラーガヴァはすぐにラーヴァナへ、ラーヴァナもまた同様にラーガヴァへ、互いに様々な鋭い矢の雨を降らせた。

6.99.26

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।
बाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ ॥ ६.९९.२६ ॥

二人は長い間、不思議な円を描いて左右に旋回し、矢の速さに弾かれながら、互いに打ち負かされることはなかった。

6.99.27

तयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः।
रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ ६.९९.२७ ॥

二人が同時に戦うのを見て、生き物たちは震えた。矢を放つ二人の猛者は、死の神ヤマとアンタカのようであった。

6.99.28

सततं विविधैर्बाणैर्बभूव गगनं तदा।
घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ ६.९९.२८ ॥

その時、空は絶え間なく様々な矢で満たされた。夏の暑さが終わる頃、稲妻の花環に満ちた雲のように。

6.99.29

गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः।
महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥ ६.९९.२९ ॥

矢の雨によって、空は格子窓のように穴だらけになった。速く力強い、鋭い先端を持ち、禿鷲の羽根で矢羽を付けられた、よく造られた矢によって。

6.99.30

शरान्धकारमाकाशं चक्रतुः परमं तदा।
गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ ६.९९.३० ॥

そして二人は、空を矢による至上の闇で覆った。日が沈んだ後に湧き上がった二つの大きな雲のように。

6.99.31

तयोरभून्महायुद्धमन्योन्यवधकांक्षिणोः।
अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ६.९९.३१ ॥

互いに相手の死を望む二人の間に大戦が起こった。それはヴリトラとヴァーサヴァ(インドラ)の戦いのように、比類なく想像を超えたものだった。

6.99.32

उभौ हि परमेष्वासावुभौ युद्धविशारदौ।
उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ६.९९.३२ ॥

二人とも最高の弓手であり、戦いに熟達し、武器を知る者の中でも最も優れていた。二人とも戦場を駆け巡った。

6.99.33

उभौ हि येन व्रजतस्तेन तेन शरोर्मयः।
ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ६.९९.३३ ॥

二人が向かうところ、矢の波が起こった。風に打たれた矢は、二つの海の波のように押し寄せた。

6.99.34

ततः संसक्तहस्तस्तु रावणो लोकरावणः।
नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ६.९९.३४ ॥

すると、世界を震え上がらせるラーヴァナは、手に矢をつがえ、ラーマの額に鉄の矢の花環を放った。

6.99.35

रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।
शिरसाधारयद् रामो न व्यथामभ्यपद्यत ॥ ६.९९.३५ ॥

恐ろしい弓から放たれた、青い睡蓮の花びらのような輝きを持つその矢の花環を、ラーマは頭に受けたが、痛みは感じなかった。

6.99.36

अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन्।
शरान् भूयः समादाय रामः क्रोधसमन्वितः ॥ ६.९९.३६ ॥

するとラーマは真言を唱え、恐ろしい武器を呼び起こし、怒りに満ちて再び矢を取った。

6.99.37

मुमोच च महातेजाश्चापमायम्य वीर्यवान्।
तान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ॥ ६.९९.३७ ॥

大いなる輝きと勇気をもつラーマは弓を引き絞り、あの矢を放ち、傷ひとつない矢を羅刹の王へと射かけた。

6.99.38

ते महामेघसंकाशे कवचे पतिताः शराः।
अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ६.९९.३८ ॥

大きな雲のような鎧に当たった矢は、討たれ得ぬ羅刹の王に何の痛みも与えなかった。

6.99.39

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।
ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ॥ ६.९९.३९ ॥

そこでラーマは、あらゆる武器に通じ、戦車に立つ羅刹の王の額を最上の武器で打った。

6.99.40

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।
श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ ६.९९.४० ॥

矢の姿をした蛇たちは、五つの頭をもつ蛇のように唸りをあげ、ラーヴァナに阻まれて、貫いて大地へと潜り込んだ。

6.99.41

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः।
आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार सः ॥ ६.९९.४१ ॥

ラーガヴァの武器を破壊したラーヴァナは、怒りに我を失い、極めて恐ろしいアスラの武器を出現させた。

6.99.42

सिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि।
गृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ॥ ६.९९.४२ ॥

獅子や虎の顔をもつもの、鷺や鶴の顔をもつもの、禿鷹や鷹の顔をもつもの、そして山犬の顔をもつものが現れた。

6.99.43

ईहामृगमुखांश्चापि व्यादितास्यान् भयावहान्।
पञ्चास्याँल्लेलिहानांश्च ससर्ज निशितान् शरान् ॥ ६.९९.४३ ॥

狼の顔をし、口を開けて恐ろしく、五つの顔を持ち、舌で舐める鋭い矢も彼は放った。

6.99.44

शरान् खरमुखांश्चान्यान् वराहमुखसंश्रितान्।
श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥ ६.९९.४४ ॥

彼はまたロバの顔を持つ矢、イノシシの顔を取る矢、犬と雄鶏の顔を持つ矢、ワニと蛇の口を持つ矢も放った。

6.99.45

एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्छरान्।
रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ६.९९.४५ ॥

その大いなる輝きの者は幻術によってこれらや他の鋭い矢をラーマに向けて放ち、怒った蛇のように息を荒げた。

6.99.46

आसुरेण समाविष्टः सोऽस्त्रेण रघुपुङ्गवः।
ससर्जास्त्रं महोत्साहं पावकं पावकोपमः ॥ ६.९९.४६ ॥

阿修羅の武器に捕らえられながらも、ラグ族の最良の者は火のごとく、大いなる気力で火の武器を放った。

6.99.47

अग्निदीप्तमुखान् बाणांस्तत्र सूर्यमुखानपि।
चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि।
ग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् ॥ ६.९९.४७ ॥

そこで彼は火のように輝く顔の矢、太陽の顔の矢、月と半月の顔の矢、彗星の顔の矢、惑星と星の色の矢、そして大流星の顔の上に立つ矢を放った。

6.99.48

विद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान्।
ते रावणशरा घोरा राघवास्त्रसमाहताः ॥ ६.९९.४८ ॥

彼はまた稲妻の舌のような様々な矢を放った。しかしラーヴァナのそれら恐ろしい矢は、ラーガヴァの武器によって打ち倒された。

6.99.49

विलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः।
तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ ६.९९.४९ ॥

彼らは空中で消え去ったが、幾千もの矢で打ち据えた。努めずして行う業のラーマにその武器が破壊されるのを見て、

6.99.50

हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः।
सुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम् ॥ ६.९९.५० ॥

そこで喜んだ、意のままに姿を変える猴の全軍と、スグリーヴァの前にいた勇士たちは、ラーガヴァを完全に取り囲んで吠え立てた。

6.99.51

ततस्तदस्त्रं विनिहत्य राघवः
प्रसह्य तद् रावणबाहुनिःसृतम्।
मुदान्वितो दाशरथिर्महात्मा
विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ६.९९.५१ ॥

そこでラーガヴァは、ラーヴァナの腕から放たれたその武器を力ずくで完全に打ち砕いた。喜びに満ちた偉大な魂のダシャラタの子と、歓喜した猴王たちは大声で吠えた。