Vedyatra वेदयात्रा
検索

ウパニシャッド · Aitareya 1.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Aitareya 1.1.1

आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चचन । स ईक्षत लोकान्नु सृजा इति ॥ १.१.१ ॥

初めにこれはただ一つの自己(ātman)であった。他には何も存在しなかった。彼は思った。「さあ、諸世界を創造しよう。」

Aitareya 1.1.2

स इमाँल्लोकानसृजत । अम्भो मरीचीर्मापोऽदोऽम्भः परेण दिवं द्यौः प्रतिष्ठाऽन्तरिक्षं मरीचयः । पृथिवी मरो या अधस्तात्त आपः ॥ १.१.२ ॥

彼はこれらの世界を創造した。上なる水(ambhaḥ)、光線(marīcīḥ)、maraḥ、そして ambhaḥ。天を越えたものが天空(dyauḥ)であり、その支えは中間空間(antarikṣa)である。光線は中間空間であり、大地は maraḥ である。そして下なる水が āpaḥ である。

Aitareya 1.1.3

स ईक्षतेमे नु लोका लोकपालान्नु सृजा इति ॥ सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्छयत् ॥ १.१.३ ॥

彼は思った。「さあ、これらの世界のために守護者(lokapāla)を創造しよう。」そして彼はただ水の中から人(puruṣa)を取り出し、その形を整えた。

Aitareya 1.1.4

तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निर्नासिके निरभिद्येतं नासिकाभ्यां प्राणः । प्राणाद्वायुरक्षिणी निरभिद्येतमक्षिभ्यां चक्षुश्चक्षुष आदित्यः कर्णौ निरभिद्येतां कर्णाभ्यां श्रोत्रं श्रोत्रद्दिशस्त्वङ्निरभिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृदयं निरभिद्यत हृदयान्मनो मनसश्चन्द्रमा नाभिर्निरभिद्यत नाभ्या अपानोऽपानान्मृत्युः शिश्नं निरभिद्यत शिश्नाद्रेतो रेतस आपः ॥ १.१.४ ॥

彼はそれを熱した。熱せられたものの口は卵のように裂け、口から言葉が、言葉から火が生じた。両の鼻孔が裂け、鼻から息(prāṇa)が、息から風が生じた。両の眼が裂け、眼から視覚が、視覚から太陽が生じた。両の耳が裂け、耳から聴覚が、聴覚から方位が生じた。皮膚が裂け、皮膚から毛が、毛から薬草と樹木が生じた。心臓が裂け、心臓から意が、意から月が生じた。臍が裂け、臍から下行する息(apāna)が、下行する息から死が生じた。生殖器が裂け、そこから精液が、精液から水(āpaḥ)が生じた。