奥义书 · Chāndogya 2.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 2.22.1
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २.२२.१ ॥
「我选择带来牲畜的维纳尔迪娑摩」——这是火神的乌德吉陀,不可言说;生主的乌德吉陀是可言说的;月神的柔和光滑;风神的光滑而有力;因陀罗的是克朗车;梵天之主的驱散黑暗;伐楼那的。应当依止所有这些,但必须避开伐楼那的那一个。
Chāndogya 2.22.2
अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २.२२.२ ॥
「我为诸神歌唱不死」——应当这样歌唱;为祖先歌唱祭食(svadhā),为人类歌唱希望,为牲畜歌唱草与水,为祭主歌唱天界,为自己歌唱食物——每一处都说「我将歌唱」;以心念观想这些,应当警觉地赞颂。
Chāndogya 2.22.3
सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं यदि स्वरेषूपालभेतेन्द्रꣳशरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.३ ॥
所有元音是因陀罗的自我,所有嘶音和送气音是生主的自我,所有塞音是死亡的自我。若有人在元音中责备他,应当对他说:“我已归依因陀罗;他会回答你。”
Chāndogya 2.22.4
अथ यद्येनमूष्मसूपालभेत प्रजापतिꣳशरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयादथ यद्येनꣳ स्पर्शेषूपालभेत मृत्युꣳ शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २.२२.४ ॥
其次,若有人在嘶音和送气音中责备他,应当对他说:“我已归依生主;他会看着你。”若有人在塞音中责备他,应当说:“我已归依死亡;它会烧毁你。”
Chāndogya 2.22.5
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ २.२२.५ ॥
所有元音应当带着声音、有力地发出,并说:“我赋予因陀罗力量。”所有嘶音和送气音应当畅通地发出,不吞没、不压抑,并说:“我把我的自我奉献给生主。”所有塞音应当轻轻地发出,不完全闭塞,并说:“我使我的自我远离死亡。”