奥义书 · Chāndogya 3.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 3.16.1
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विꣳशतिवर्षाणि तत्प्रातःसवनं चतुर्विꣳशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदꣳसर्वं वासयन्ति ॥ ३.१६.१ ॥
人确实就是祭祀。他的二十四年就是晨祭;二十四音节的伽耶特里属于晨祭伽耶特拉。诸婆苏依赖于此;诸气息确实就是婆苏,因为它们使这一切得以安住。
Chāndogya 3.16.2
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनꣳसवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ३.१६.२ ॥
若在此年龄有什么使他受苦,他应当说:'诸气息啊,诸婆苏啊,愿我的晨祭与午祭得以延续;愿我不在诸气息与诸婆苏之中失去祭祀。'那么他确实会度过此难,并免于疾病。
Chāndogya 3.16.3
अथ यानि चतुश्चत्वारिꣳशद्वर्षाणि तन्माध्यंदिनꣳसवनं चतुश्चत्वारिꣳशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यन्दिनꣳसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदꣳसर्वꣳरोदयन्ति ॥ ३.१६.३ ॥
四十四年即是午祭;四十四音节的特利什图布属于午祭的特莱什图布。楼陀罗依赖于此;诸气息确实就是楼陀罗,因为它们使这一切哭泣。
Chāndogya 3.16.4
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यन्दिनꣳसवनं तृतीयसवनमनुसन्तनुतेति माहं प्राणानाꣳरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ३.१६.४ ॥
若他在这个年纪身患某种疾病,他应当说:「诸气啊,诸楼陀罗啊,请延续我的正午压榨与第三次压榨;愿我不在诸气与诸楼陀罗之中被剥夺祭祀。」随即从那里起身,他便摆脱了疾病。
Chāndogya 3.16.5
अथ यान्यष्टाचत्वारिꣳशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिꣳशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदꣳसर्वमाददते ॥ ३.१६.५ ॥
那四十八年,即是第三次压榨。四十八音节的遮那提韵律即是遮陀第三次压榨。诸阿提提亚依赖于它;诸气即是阿提提亚,因为正是它们摄取这一切。
Chāndogya 3.16.6
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत्स ब्रूयात्प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ३.१६.६ ॥
若他在这个年纪身患某种疾病,他应当说:「诸气啊,诸阿提提亚啊,请延续我的第三次压榨与我的寿命;愿我不在诸气与诸阿提提亚之中被剥夺祭祀。」随即从那里起身,他便摆脱了疾病。
Chāndogya 3.16.7
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ३.१६.७ ॥
摩希陀娑·爱多雷耶知道这一点,便说:「你为何因此而使我痛苦?我不会因此被送走。」他活了一千六百年;如此知道的人,活一千六百年。