Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 3.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 3.18.1

मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३.१८.१ ॥

应当这样观修:'意即是梵'——这是关于自我的。然后关于神圣的方面:'虚空即是梵'。两者都已被教导:关于自我的与关于神圣的。

Chāndogya 3.18.2

तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद अदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चैवाधिदैवतं च ॥ ३.१८.२ ॥

此梵有四分。言语是一分,气息(prāṇa)是一分,眼是一分,耳是一分——这是就内在自我(adhyātman)而言所教示的。就外在神祇(adhidaivata)而言:火是一分,风是一分,太阳是一分,方位是一分。两者都被教示。

Chāndogya 3.18.3

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.३ ॥

唯有言语是梵的第四分。它以火与光照耀、燃烧,照耀、燃烧;如此知之者,便具足名声、荣耀与梵的光辉(brahmavarcas)。

Chāndogya 3.18.4

प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.४ ॥

唯有气息(prāṇa)是梵的第四分。它以风与光照耀、燃烧,照耀、燃烧;如此知之者,便具足名声、荣耀与梵的光辉(brahmavarcas)。

Chāndogya 3.18.5

चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३.१८.५ ॥

唯有眼睛(视觉)是梵的第四分。它以太阳与光照耀、燃烧,照耀、燃烧;如此知之者,便具足名声、荣耀与梵的光辉(brahmavarcas)。

Chāndogya 3.18.6

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३.१८.६ ॥

听觉本身是梵的第四分。它借诸方而发光、发热,发光、发热;借名声、荣誉与梵光而显现。如此知者,如此知者。