Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 3.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 3.19.1

आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ ३.१९.१ ॥

太阳即是梵,这是教导。其详述如下:起初,此是无有。它成为有,于是生起。它化为一卵,静卧一年之久。它裂开,卵壳的两半成为白银与黄金。

Chāndogya 3.19.2

तद्यद्रजतꣳसेयं पृथिवी यत्सुवर्णꣳ सा द्यौर्यज्जरायु ते पर्वता यदुल्बꣳसमेघो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकꣳस समुद्रः ॥ ३.१९.२ ॥

其中为银者是此大地;为金者是天空;为胎膜者是群山;为胎衣者是云与雾;为脉络者是河流;为水液者是水,即是大海。

Chāndogya 3.19.3

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३.१९.३ ॥

随后所生者即是那太阳。当他出生时,呼喊与呜呜之声随他而起,一切众生与一切欲望也随之而起。因此,向其升起与向其落下之时,呼喊与呜呜之声便起,一切众生与一切欲望也便起。

Chāndogya 3.19.4

स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनꣳ साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ३.१९.४ ॥

知此而以太阳为梵而修奉者,当吉祥之声靠近他并在近处回响时,便在近处回响。