奥义书 · Chāndogya 4.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 4.15.1
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तद्यद्यप्यस्मिन्सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ ४.१५.१ ॥
“这位在眼中被看见的人,便是阿特曼。”他这样说。这就是不死者,这就是无畏,这就是梵。即便在其中倒入酥油或水,它也只是沿着两条眼睑之路流去。
Chāndogya 4.15.2
एतꣳ संयद्वाम इत्याचक्षत एतꣳ हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ ४.१५.२ ॥
此被称为"Saṃyadvāma",因为一切可爱之物都汇聚于它。对如此知之者,一切可爱之物都汇聚于他。
Chāndogya 4.15.3
एष उ एव वामनीरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ४.१५.३ ॥
此即"Vāmanī",因为他引导一切可爱之物,引导一切可爱之物。对如此知之者,便是如此。
Chāndogya 4.15.4
एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४.१५.४ ॥
此即"Bhāmanī",因为他在一切世界中照耀,在一切世界中照耀。对如此知之者,便是如此。
Chāndogya 4.15.5
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडुदङ्ङेति मासाꣳस्तान्मासेभ्यः संवत्सरꣳ संवत्सरादादित्यमादित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः ॥ ४.१५.५ ॥
此外,当为其举行丧葬仪式时,若他不只是到达火焰,则从火焰到白昼,从白昼到上弦月,从上弦月到太阳北行的六个月,从这些月到年,从年到太阳,从太阳到月亮,从月亮到闪电。在那里来了一位非人之人(amānava puruṣa)。
Chāndogya 4.15.6
स एनान्ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ४.१५.६ ॥
他引导他们到达梵。这是诸神之道,梵之道。循此道而行者不再回到这人间轮回,不再回来。