Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.2.1

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत ॥ ६.२.१ ॥

亲爱的索摩耶,起初,此世界唯有有(sat),唯一而无第二。有人说,起初此世界唯有无(asat),唯一而无第二;而从这无中,有便生起了。

Chāndogya 6.2.2

कुतस्तु खलु सोम्यैवँस्यादिति होवाच कथमसतः सज्जायेतेति। सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ ६.२.२ ॥

亲爱的索摩耶,这怎么可能呢?他说道:有怎么可能从无中生起?亲爱的索摩耶,起初,此世界唯有有(sat),唯一而无第二。

Chāndogya 6.2.3

तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत । तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र क्वच शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ६.२.३ ॥

他思量:愿我成为众多,愿我生出。于是他生出火(tejas)。那火思量:愿我成为众多,愿我生出。于是它生出水。因此,无论人在何处悲伤或出汗,水都是从火中生出的。

Chāndogya 6.2.4

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त । तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भ्य एव तदध्यन्नाद्यं जायते ॥ ६.२.४ ॥

那些水思量:愿我们成为众多,愿我们生出。于是它们生出食物。因此,哪里下雨,哪里的食物就最丰富;可食用的食物正是从水中生出的。