奥义书 · Chāndogya 7.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 7.15.1
प्राणो वा आशाया भूयान्यथा वा अरा नाभौ समर्पिता एवमस्मिन्प्राणे सर्वँ समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ ७.१५.१ ॥
气息(prāṇa)大于希望。如车轮的辐条固定于轴心,万物也固定于此气息之中。气息借气息而运行,气息施予气息。气息即父,气息即母,气息即兄,气息即姊妹,气息即师长,气息即婆罗门。
Chāndogya 7.15.2
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वास्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७.१५.२ ॥
若他对父亲、母亲、兄弟、姐妹、师长或婆罗门说了粗暴的话,人们便对他说:“你可耻,就这样吧。”“你确实是弑父者,确实是弑母者,确实是弑兄者,确实是弑姊妹者,确实是弑师者,确实是弑婆罗门者。”
Chāndogya 7.15.3
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेन्नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ७.१५.३ ॥
即便其气息已经离去,把他钉在木桩上烧得干干净净,人们也不会对他说:“你是弑父者”,不说“弑母者”,不说“弑兄者”,不说“弑姊妹者”,不说“弑师者”,不说“弑婆罗门者”。
Chāndogya 7.15.4
प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीति ब्रूयान्नापह्नुवीत ॥ ७.१५.४ ॥
气息(prāṇa)确实成为这一切。如此观看、如此思维、如此知晓的人,便成为“超言者”(ativādin),即直言无畏的人。若有人对他说:“你是超言者”,他应当回答:“我是超言者”,不应否认。