Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.11.1

तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाह खल्वयमेवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८.११.१ ॥

当熟睡者完全安息、平静而不知梦境时,那便是自我(ātman),他说;这是不朽,这是无畏,这是梵(brahman)。他怀着平静的心离去,但未曾得到诸神,便见到这恐惧:「确实,我如今这样不知我的自我,即我是这个」;而这些众生也不会因此而灭亡。「在这里我看不到可享受之物。」

Chāndogya 8.11.2

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच नाह खल्वयं भगव एवꣳ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ ८.११.२ ॥

他手持柴薪又回来了。生主对他说:摩ghavan,你怀着平静的心离去,现在为何所求而归来?他说:尊者啊,我如今尚不这样了知自我,即“我就是此”。这些存在确实归于毁灭;我在此看不到可享用之物。

Chāndogya 8.11.3

एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद्वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतꣳ संपेदुरेतत्तद्यदाहुरेकशतꣳ ह वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ॥ ८.११.३ ॥

摩ghavan啊,他这样说:「我会再为你详细解释,但不离开此处:再住五年。」他又住了五年。这些年共成一百;人们说「一百年」正是此意。摩ghavan在生主处修梵行一百年。他对他说了。