Mahābhārata · Adhyāya 1.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.63.1
पूरोर्वंशमहं धन्यं राज्ञाममिततेजसाम् ।
प्रवक्ष्यामि पितॄणां ते तेषां नामानि मे शृमु ॥ १.६३.१ ॥
Je vais proclamer la lignée bénie de Pūru, des rois d'une splendeur immense, et de tes ancêtres. Écoute de ma bouche leurs noms.
1.63.2
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ।
तस्मान्मरीचिः संजज्ञे दक्षश्चैव प्रजापतिः ॥ १.६३.२ ॥
Brahmā, dont l'origine est non manifestée, éternel, constant et impérissable ; de lui naquit Marīci, et aussi Dakṣa, seigneur des créatures.
1.63.3
अङ्गुष्ठाद्दक्षमसृजच्चक्षुर्भ्यां च मरीचिनम् ।
मरीचेः कश्यपः पुत्रो दक्षस्य दुहिताऽऽदितिः ॥ १.६३.३ ॥
De son pouce il créa Dakṣa, et de ses yeux Marīci. Kaśyapa fut le fils de Marīci ; Aditi fut la fille de Dakṣa.
1.63.4
अदित्यां कश्यपाद्विवस्थान् ।
विवस्वतो मनुर्मनोरिला ॥ १.६३.४ ॥
De Kaśyapa, en Aditi, naquit Vivasvān ; de Vivasvān, Manu ; de Manu, Ilā.
1.63.5
इलायाः पुरूरवाः ।
पुरूरवस आयुः।
आयुषो नहुषः ।
नहुषस्य ययातिः ॥ १.६३.५ ॥
D'Ilā, Purūravas ; de Purūravas, Āyu ; d'Āyu, Nahuṣa ; de Nahuṣa, Yayāti.
1.63.6
ययातेर्द्वे भार्ये बभूवतुः ।
उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम ॥ १.६३.६ ॥
Yayāti eut deux épouses : Devayānī, fille d'Uśanas, et la fille de Vṛṣaparvan nommée Śarmiṣṭhā.
1.63.7
तत्रानुवंशो भवति ।
यदुं च तुर्वसुं चैव देवयानी व्यजायत।
द्रुह्यं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ १.६३.७ ॥
Voici la généalogie. Devayānī enfanta Yadu et Turvasu, et Śarmiṣṭhā, fille de Vṛṣaparvan, enfanta Druhyu, Anu et Pūru.
1.63.8
तत्र यदोर्यादवाः ।
पूरोः पौरवाः।
पूरोर्भार्या कौसल्या बभूव ।
तस्यामस्य जज्ञे जनमेजयः ॥ १.६३.८ ॥
Là, les descendants de Yadu sont les Yādavas, ceux de Pūru les Pauravas. La femme de Pūru fut Kausalyā ; en elle naquit son fils Janamejaya.
1.63.9
स त्रीन्हयमेधानाजहार ।
विश्वजिता चेष्ट्वा वनं प्रविवेश ॥ १.६३.९ ॥
Il accomplit trois sacrifices du cheval ; ayant offert le sacrifice Viśvajit, il entra dans la forêt.
1.63.10
जनमेजयस्तु सुनन्दां नामोपयेमे मागधीं ।
तस्यामस्य जज्ञे प्राचीन्वान् ॥ १.६३.१० ॥
Janamejaya épousa une femme māgadhī nommée Sunandā ; en elle naquit son fils Prācīnvān.
1.63.11
यः प्राचीं दिशं जिगाय ।
यावत्सूर्यादयात् तत्तस्य प्राचीनत्वम् ॥ १.६३.११ ॥
Celui qui conquit la direction orientale ; jusqu'où le soleil se lève, telle est son étendue orientale (Prācīnatva).
1.63.12
प्राचीन्वांस्तु खल्वाश्मकीमुपयेमे यादवीम् ।
तस्यामस्य जज्ञे शस्यातिः ॥ १.६३.१२ ॥
Prācīnvān épousa en vérité la femme āśmakī et la femme yādavī ; en elle naquit son fils Śasyāti.
1.63.13
शय्यातिस्तु त्रिशङ्कोर्दुहितरं वराङ्गीं नामोपयेमे तस्यामस्य जज्ञेऽहंयातिः ॥ १.६३.१३ ॥
Śayyāti épousa Varāṅgī, la fille de Triśaṅku, aux beaux membres. D'elle naquit Ahaṃyāti.
1.63.14
अहंयातिस्तु खलु कृतवीर्यदुहितरं भानुमतीं नामोपयेमे ।
तस्यामस्य जज्ञे सार्वभौमः ॥ १.६३.१४ ॥
Ahaṃyāti épousa Bhānumatī, la fille de Kṛtavīrya. D'elle naquit Sārvabhauma.
1.63.15
सार्वभौमस्तु खलु जित्वाऽऽजहार कैकयीं सुन्दरां नाम तामुपयेमे ।
तस्यामस्य जज्ञे जयत्सेनः ॥ १.६३.१५ ॥
Sārvabhauma, après avoir vaincu, ramena la belle Kaikayī et l'épousa. D'elle naquit Jayatsena.
1.63.16
जयत्सेनस्तु खलु वैदर्भीमुपयेमे सुश्रवां नाम ।
तस्यामस्य जज्ञेऽपराचीनः ॥ १.६३.१६ ॥
Jayatsena épousa Suśravā, la Vaidarbhī. D'elle naquit Aparācīna.
1.63.17
अपराचीनस्तु खलु वैदर्भीमपरामुपयेमे मर्यादां नाम ।
तस्यामस्य जज्ञेऽरिहः ॥ १.६३.१७ ॥
Aparācīna épousa une autre Vaidarbhī, nommée Maryādā. D'elle naquit Ariha.
1.63.18
अरिहः खल्वाङ्गीमुपेयेमे ।
तस्यामस्य जज्ञे महाभौमः ॥ १.६३.१८ ॥
Ariha épousa Āṅgī. D'elle naquit Mahābhauma.
1.63.19
महाभौमस्तु खलु प्रसेनजिद्दुहितरमुपयेमे सुयज्ञां नाम ।
तस्यामस्य जज्ञे अयुतानायी ॥ १.६३.१९ ॥
Mahābhauma épousa Suyajñā, fille de Prasenajit. De cette union naquit son fils Ayutānāyī.
1.63.20
यः पुरुषमेधे पुरुषाणामयुतमानयत्तत्तस्यायुतानायित्वम् ॥ १.६३.२० ॥
Parce qu'il amena dix mille hommes au sacrifice humain, il reçut le nom d'Ayutānāyī.
1.63.21
अयुतानायी तु खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम ।
तस्यामस्य जज्ञेऽक्रोधनः ॥ १.६३.२१ ॥
Ayutānāyī épousa Bhāsā, fille de Pṛthuśravas. De cette union naquit Akrodhana.
1.63.22
अक्रोधनस्तु खलु कालिङ्गीं कण्डूं नामोपयेमे ।
तस्यामस्य जज्ञे देवातिथिः ॥ १.६३.२२ ॥
Akrodhana épousa Kaṇḍū, la femme du Kāliṅga. De cette union naquit Devātithi.
1.63.23
देवातिथिस्तु खलु वैदर्भीमुपयेमे मर्यादां नाम तस्यामस्य जज्ञे ऋचः ॥ १.६३.२३ ॥
Devātithi épousa Maryādā, la femme de Vidarbha. De cette union naquit Ṛca.
1.63.24
ऋचस्तु खलु वामदेव्यामङ्गराजकन्यायामृक्षं पुत्रमजीजनत् ॥ १.६३.२४ ॥
Ṛca engendra un fils, Ṛkṣa, de Vāmadevī, fille du roi d'Aṅga.
1.63.25
ऋक्षस्तु खलु तक्षकदुहितरं ज्वलन्तीं नामोपयेमे ।
तस्यामन्त्यनारमुत्पादयामास ॥ १.६३.२५ ॥
Ṛkṣa épousa la fille de Takṣaka, une jeune femme nommée Jvalantī. En elle il engendra Antynara.
1.63.26
अन्त्यनारस्तु खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार ।
तमुदवसाने सरस्वत्यभिगम्य भर्तारं वरयामास ॥ १.६३.२६ ॥
Antynara accomplit sur la Sarasvatī un sacrifice de douze ans. À son achèvement, Sarasvatī vint à lui et le choisit pour époux.
1.63.27
तस्यां पुत्रं जनयामास त्रस्नुं नाम ।
अत्रानुवंशो भवति ॥ १.६३.२७ ॥
En elle il engendra un fils nommé Trasnu. Voici ici la lignée.
1.63.28
त्रस्नुं सरस्वती पुत्रमन्त्यनारादजीजनत् ।
इलिलं जनयामास कालिन्द्यांत्रस्नुरात्मजम् ॥ १.६३.२८ ॥
Sarasvatī enfanta Trasnu d'Antynara. Trasnu engendra son fils Ilila avec Kālindī.
1.63.29
इलिलस्तु रथन्तर्यां दुष्यन्तादीन्पञ्च पुत्रानजीजनत् ॥ १.६३.२९ ॥
Ilila engendra avec Rathantarī cinq fils, à commencer par Duṣyanta.
1.63.30
दुष्यन्तस्तु लाक्षीं नाम भागीरथीमुपयेमे तस्यामस्य जज्ञे जनमेजयः ॥ १.६३.३० ॥
Duṣyanta épousa Lākṣī, une Bhāgīrathī, de qui naquit son fils Janamejaya.
1.63.31
सएव दुष्यन्तो विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे ।
तस्यामस्य जज्ञे भरतः ॥ १.६३.३१ ॥
Ce même Duṣyanta épousa la fille de Viśvāmitra, nommée Śakuntalā. D'elle naquit son fils Bharata.
1.63.32
तत्रेमौ श्लोकौ भवतः ।
माता भस्त्रा पितुः पुत्रो यस्माज्जातः स एव सः।
भरस्व पुत्रं दौष्यन्तिं सत्यमाह शकुन्तला ॥ १.६३.३२ ॥
Voici deux strophes : la mère n'est qu'un soufflet ; le fils naît du père, et c'est donc bien lui. Soutiens le fils de Duṣyanta — Śakuntalā a dit la vérité.
1.63.33
रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १.६३.३३ ॥
Le père, porteur de la semence, relève le fils de la ruine du royaume de Yama. Ô seigneur des hommes, tu es le porteur de cet embryon — Śakuntalā a dit la vérité.
1.63.34
ततोऽस्य भरतत्वम् ।
भरतस्तु खलु काशेयीं सार्वसेनीमुपयेमे सुनन्दां नाम।
तस्यामस्य जज्ञे भुमन्युः ॥ १.६३.३४ ॥
Alors, c'est de là que vint le nom de Bharata. Bharata épousa la princesse Sunandā, de la lignée Sārvasena de Kāśi ; d'elle naquit son fils Bhumanyu.
1.63.35
भुमन्युस्तु खलु दाशार्हीमुपयेमे सुवर्णां नाम ।
तस्यामस्य जज्ञे सुहोत्रः ॥ १.६३.३५ ॥
Bhumanyu épousa la femme dāśārhī nommée Suvarṇā ; d'elle naquit son fils Suhotra.
1.63.36
सुहोत्रस्तु खल्वैक्ष्वाकीमुपयेमे जयन्तीं नाम ।
तस्यामस्य जज्ञे हस्ती।
य इदं पुरं निर्मापयामास ॥ १.६३.३६ ॥
Suhotra épousa la femme ikṣvāku nommée Jayantī ; d'elle naquit son fils Hastin, qui fonda cette ville.
1.63.37
तस्माद्धास्तिनपुरत्वम् ।
हस्ती खलु त्रैगर्तीमुपयेमे यशोदां नाम तस्यामस्य जज्ञे विकुञ्जतः ॥ १.६३.३७ ॥
C'est pourquoi elle fut nommée Hāstinapura. Hasti épousa la femme traigartī nommée Yaśodā, et de lui naquit Vikuñjata.
1.63.38
विकुञ्जनस्तु खलु दाशार्हीमुपयेमे सुन्दरां नाम ।
तस्यामस्य जज्ञेऽजमीढः ॥ १.६३.३८ ॥
Vikuñjana épousa la femme dāśārhī nommée Sundarā, et de lui naquit Ajamīḍha.
1.63.39
अजमीढस्य तु चतुर्विंशतिपुत्रशतं बभूव ।
कैकय्यां नागायां गान्धार्यां विमलायामृक्षायामिति ॥ १.६३.३९ ॥
Ajamīḍha eut cent vingt-quatre fils, nés de ses épouses Kaikayī, Nāgā, Gāndhārī, Vimalā et Ṛkṣā.
1.63.40
पृथग्वंशकर्तारो नृपतयः ।
तत्र अजमीढादृक्षायां संवरणो जज्ञे स वंशकरः ॥ १.६३.४० ॥
Ces rois furent les fondateurs de lignées distinctes. Parmi eux, d'Ajamīḍha et de Ṛkṣā naquit Saṃvaraṇa, qui perpétua la lignée.
1.63.41
सवरणस्तु वैवस्वतीं तपतीं नामोपयेमे ।
तस्यामस्य जज्ञे कुरुः ॥ १.६३.४१ ॥
Saṃvaraṇa épousa la fille de Vivasvat nommée Tapatī, et de lui naquit Kuru.
1.63.42
कुरुस्तु खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम ।
तस्यामस्य जज्ञे विदूरथः ॥ १.६३.४२ ॥
Kuru épousa la femme dāśārhī nommée Śubhāṅgī, et de lui naquit Vidūratha.
1.63.43
विदूरथस्तु खलु मागधीमुपयेमे संप्रियां नाम ।
तस्यामस्य जज्ञेऽनश्वान् ॥ १.६३.४३ ॥
Vidūratha épousa une femme du Magadha nommée Saṃpriyā, et d'elle naquit Anaśvan.
1.63.44
अनश्वांस्तु खलु मागधीमुपयेमेऽमृतां नाम ।
तस्यामस्य जज्ञे परिक्षित् ॥ १.६३.४४ ॥
Anaśvan épousa une femme du Magadha nommée Amṛtā, et d'elle naquit Parikṣit.
1.63.45
परिक्षित्खलु बाहुकामुपयेमे सुवेषां नाम ।
तस्यामस्य जज्ञे भीमसेनः ॥ १.६३.४५ ॥
Parikṣit épousa une femme nommée Bāhukā, dite Suveṣā, et d'elle naquit Bhīmasena.
1.63.46
भीमसेनस्तु खलु कैकयीमुपयेमे सुकुमारीं नाम ।
तस्यामस्य जज्ञे परिश्रवाः ॥ १.६३.४६ ॥
Bhīmasena épousa une femme kaikeyī nommée Sukumārī, et d'elle naquit Pariśravas.
1.63.47
यमाहुः प्रतीप इति ।
प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दीं नाम।
तस्यां त्रीन्पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति ॥ १.६३.४७ ॥
On l'appelle Pratīpa. Pratīpa épousa une femme śaibya nommée Sunandī, et d'elle il engendra trois fils : Devāpi, Śantanu et Bāhlīka.
1.63.48
देवापिस्तु खलु बाल एवारण्यं प्रविवेश ।
शन्तनुस्तु महीपालोऽभवत् ॥ १.६३.४८ ॥
Devāpi, encore enfant, entra dans la forêt ; et Śantanu devint le protecteur de la terre, un roi.
1.63.49
तत्र श्लोको भवति ।
यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते।
पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥ १.६३.४९ ॥
Voici un vers : celui qu'il touche de ses mains, même le vieillard obtient le bonheur et redevient jeune ; c'est pourquoi on le connaît sous le nom de Śantanu.
1.63.50
तदस्य शन्तनुत्वं ।
शन्तनुस्तु खलु गङ्गां भागीरथीमुपयेमे तस्यामस्य जज्ञे देवव्रतः।
यमाहुर्भीष्म इति ॥ १.६३.५० ॥
Tel est son être Śantanu. Śantanu épousa Gaṅgā, fille de Bhāgīratha ; d'elle naquit Devavrata, qu'on appelle Bhīṣma.
1.63.51
भीष्मस्तु खलु पितुः प्रियचिकीर्षया सत्यवतीमानयामास मातरं ।
यामाहुः कालीति ॥ १.६३.५१ ॥
Bhīṣma, désireux de plaire à son père, amena Satyavatī comme mère ; on l'appelle Kālī.
1.63.52
तस्यां पूर्वं पुराशरात्कन्यागर्भो द्वैपायनः ।
तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः चित्राङ्गदो विचित्रवीर्यश्च ॥ १.६३.५२ ॥
Auparavant, d'elle, par Parāśara, naquit Dvaipāyana, du sein d'une jeune fille. D'elle aussi naquirent à Śantanu deux fils : Citrāṅgada et Vicitravīrya.
1.63.53
चित्राङ्गदस्तु प्राप्तराज्य एव गन्धर्वेण निहृतः ।
ततो विचित्रवीर्यो राजा बभूव ॥ १.६३.५३ ॥
Citrāṅgada, dès qu'il eut obtenu le royaume, fut tué par un Gandharva. Alors Vicitravīrya devint roi.
1.63.54
विचित्रवीर्यस्तु खलुकाशिराजस्य सुते अम्बिकाम्बालिके उदवहत् ।
विचित्रवीर्योऽनुत्पन्नापत्य एव विदेहत्वं प्राप्तः ॥ १.६३.५४ ॥
Vicitravīrya épousa Ambikā et Ambālikā, les deux filles du roi de Kāśi. Vicitravīrya mourut sans postérité, atteignant la désincarnation (la mort).
1.63.55
ततः सत्यवती चिन्तयामास कथं नु खलु शन्तनोः पिण्डविच्छेदो न स्यादिति ॥ १.६३.५५ ॥
Alors Satyavatī réfléchit : comment la coupure de l'offrande funéraire de Śantanu pourrait-elle ne pas se produire ?
1.63.56
साथ द्वैपायनं चिन्तयामास सोऽग्रतः स्थितः किं करवाणीति ।
तं सत्यवत्युवाच भ्राता तेऽनपत्य एव स्वर्गतः तस्यार्थेऽपत्यमुत्पादयेति ॥ १.६३.५६ ॥
Elle pensa à Dvaipāyana ; debout devant elle, il demanda : « Que dois-je faire ? » Satyavatī lui dit : « Ton frère est allé au ciel sans descendance ; engendre une descendance pour lui. »
1.63.57
स परमित्युवाच स तत्र त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति ॥ १.६३.५७ ॥
Il dit : « Qu'il en soit ainsi. » Là, il engendra trois fils : Dhṛtarāṣṭra, Pāṇḍu et Vidura.
1.63.58
धृतराष्ट्रात्पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य तेषां च ।
धार्तराष्ट्राणां चत्वारः प्रधानाः दुर्योधनो दुश्शासनो विकर्णश्चित्रसेनश्चेति ॥ १.६३.५८ ॥
De Dhṛtarāṣṭra, en Gāndhārī, par le don de Dvaipāyana, naquirent cent fils. Parmi les fils de Dhṛtarāṣṭra, quatre étaient principaux : Duryodhana, Duḥśāsana, Vikarṇa et Citrasena.
1.63.59
पाण्डोस्तु कुन्ती माद्रीति स्त्रीरत्ने बभूवतुः ।
स मृगयां चरन्मैथुनगतमृषिं मृगचारिणं बाणेन जघान ॥ १.६३.५९ ॥
Pāṇḍu eut deux joyaux parmi les femmes, Kuntī et Mādrī. Alors qu'il errait à la chasse, il frappa d'une flèche un sage qui avait pris la forme d'un cerf et était en union charnelle.
1.63.60
स बाणविद्ध उवाच पाण्डुम् ।
अत्र श्लोको भवति ॥ १.६३.६० ॥
Frappé par la flèche, il parla à Pāṇḍu. À ce sujet, il existe un vers.
1.63.61
योऽकृतार्थं हि मां ग्रूर बाणेनाघ्ना मृगव्रतम् ।
त्वामप्येतादृशो भावः क्षिप्रमेवागमिष्यति ॥ १.६३.६१ ॥
Toi qui m'as tué d'une flèche alors que mon vœu de cerf n'était pas accompli, un tel état te viendra bientôt aussi.
1.63.62
इति मृगव्रतचारिणा ऋषिणा शप्तः ।
स विषण्णरूपः पाण्डुस्तं शापं परिहरन्नोपसर्पति भार्ये ॥ १.६३.६२ ॥
Ainsi maudit par le sage qui observait le vœu du cerf, Pāṇḍu, le visage abattu, ne s'approcha pas de ses épouses, voulant éviter cette malédiction.
1.63.63
कदाचित्स आह ।
स्वचापल्यादिदं प्राप्तवानहम्।
पुराणेषु पठ्यमानं शृणोमि नानपत्यस्य लोकाः सन्तीति ॥ १.६३.६३ ॥
Un jour il dit : c'est par ma propre étourderie que cela m'est arrivé. J'entends ce que l'on récite dans les Purāṇa : celui qui n'a pas de descendance n'a pas de mondes.
1.63.64
सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच ॥ १.६३.६४ ॥
« Toi, pour moi, engendre des fils », dit-il ainsi à Kuntī.
1.63.65
सा कुन्ती पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनमिन्द्रादर्जुनमिति ।
स हृष्टरूपः पाण्डुरुवाच।
इयं ते सपत्नी भवति माद्र्यनपत्या व्रीडिता साध्वी अस्यामपत्यमुत्पाद्यतामिति ॥ १.६३.६५ ॥
Kuntī enfanta Yudhiṣṭhira de Dharma, Bhīmasena du Vent et Arjuna d'Indra. Alors Pāṇḍu, le visage joyeux, dit : Cette Mādrī est ta corivale, sans descendance, honteuse et vertueuse ; qu'en elle aussi une descendance soit engendrée.
1.63.66
सा कुन्ती तस्यै माद्र्यै तथेति व्रतमादिदेश ।
ततस्तस्यां नकुलसहदेवौ यमावश्विभ्यां जज्ञाते ॥ १.६३.६६ ॥
Kuntī dit : « Qu'il en soit ainsi », et enseigna à Mādrī le vœu. Alors, de celle-ci, par les Aśvin, naquirent les jumeaux Nakula et Sahadeva.
1.63.67
माद्रीं तु खलु स्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे ।
स तां प्राप्यैव विदेहत्वं प्राप्तः ॥ १.६३.६७ ॥
Voyant Mādrī richement parée, Pāṇḍu fut saisi de désir. À peine l'eut-il obtenue qu'il atteignit l'état sans corps.
1.63.68
ततस्तेन सह चितामन्वारुरोह माद्री ।
कुन्तीं चोवाच यमयोरार्ययाऽप्रमत्तया भवितव्यमिति ॥ १.६३.६८ ॥
Alors Mādrī monta sur le bûcher avec lui et dit à Kuntī : « Noble dame, soyez attentive au sujet des jumeaux. »
1.63.69
ततः पञ्चपाण्डवान्सह कुन्त्या हास्तिनपुरं नयन्ति स्म तपस्विनः ॥ १.६३.६९ ॥
Alors les ascètes conduisirent les cinq Pāṇḍava, avec Kuntī, à Hāstinapura.
1.63.70
तत्र भीष्माय धृतराष्ट्रविदुरयोः पाण्डोः स्वर्गगमनं याथातथ्यं निवेदयन्तिस्म तपस्विनः ॥ १.६३.७० ॥
Là, les ascètes rapportèrent fidèlement à Bhīṣma, Dhṛtarāṣṭra et Vidura le départ de Pāṇḍu pour le ciel.
1.63.71
पाण्डवान्सह कुन्त्या जतुगृहे दाहयितुकामो धृतराष्ट्रात्मजोऽभूत् ॥ १.६३.७१ ॥
Le fils de Dhṛtarāṣṭra voulut brûler les Pāṇḍava, avec Kuntī, dans la maison de laque.
1.63.72
तांश्च विदुरो मोक्षयामास ।
ततो भीमो हिडिम्बं हत्वा पुत्रमुत्पादयामास हिडिम्बायां घटोत्कचं नाम ॥ १.६३.७२ ॥
Vidura les libéra. Puis Bhīma, ayant tué Hiḍimba, eut de Hiḍimbā un fils nommé Ghaṭotkaca.
1.63.73
ततश्चैकचक्रां जग्मुः कुशलिनः ।
ततः पाञ्चालविषयं गत्वा स्वयंवरे द्रौपदीं लब्ध्वाऽर्धराज्यं प्राप्येन्द्रप्रस्थनिवासिनस्तस्यां पुत्रानुत्पादयामासुर्द्रौपद्याम् ॥ १.६३.७३ ॥
Puis ils partirent sains et saufs pour Ekacakrā. Ensuite, s'étant rendus au pays des Pāñcāla, ayant gagné Draupadī lors de la cérémonie du choix de l'époux et obtenu la moitié du royaume, résidant à Indraprastha, ils engendrèrent des fils avec elle, Draupadī.
1.63.74
श्रुतसेनं सहदेव इति ॥ १.६३.७४ ॥
Śrutasena, né de Sahadeva.
1.63.75
शैव्यस्य कन्यां देवकीं नामोपयेमे युधिष्ठिरः ।
तस्यां पुत्रं जनयामास यौधेयं नाम ॥ १.६३.७५ ॥
Yudhiṣṭhira épousa la fille de Śaibya nommée Devakī. Il engendra d'elle un fils nommé Yaudheya.
1.63.76
भीमसेनस्तु वाराणस्यां काशिराजकन्यां जलन्धरां नामोपयेमे स्वयंवरस्थां ।
तस्यामस्य जज्ञे शर्वत्रातः ॥ १.६३.७६ ॥
Bhīmasena, quant à lui, à Vārāṇasī, épousa la fille du roi de Kāśi nommée Jalandharā, présente à la cérémonie du choix de l'époux. D'elle naquit son fils Sarvatrāta.
1.63.77
अर्जुनस्तु खलु द्वारवतीं गत्वा भगवतो वासुदेवस्य भगिनीं सुभद्रां नामोदवहद्भार्यां ।
तस्यामभिमन्युं नाम पुत्रं जनयामास ॥ १.६३.७७ ॥
Arjuna, quant à lui, alla à Dvārakā et prit pour épouse Subhadrā, sœur du bienheureux Vāsudeva. D'elle il engendra un fils nommé Abhimanyu.
1.63.78
नकुलस्तु खलु चैद्यां रेणुमतीं नामोदवहत् ।
तस्यां पुत्रं जनयामास निरमित्रं नाम ॥ १.६३.७८ ॥
Nakula, quant à lui, épousa la princesse Caidya nommée Reṇumatī. D'elle il engendra un fils nommé Niramitra.
1.63.79
सहदेवस्तु खलु माद्रीमेव स्वयंवरे विजयां नामोदवहद्भार्याम् ।
तस्यां पुत्रं जनयामास सुहोत्रं नाम ॥ १.६३.७९ ॥
Sahadeva, lors de la cérémonie du choix de l'époux, épousa l'épouse nommée Vijayā, fille de Mādrī. D'elle il engendra un fils nommé Suhotra.
1.63.80
भीमसेनश्च पूर्वमेव हिडिम्बायां राक्षस्यां पुत्रमुत्पादयामास घटोत्कचं नाम ।
अर्जुनस्तु नागकन्यायामुलूप्यामिरावन्तं नाम पुत्रं जनयामास ॥ १.६३.८० ॥
Bhīmasena avait auparavant engendré un fils nommé Ghaṭotkaca avec la rākṣasī Hiḍimbā. Arjuna engendra un fils nommé Irāvat avec la jeune nāga Ulūpī.
1.63.81
ततो मणलूरुपतिकन्यायां चित्राङ्गदायामर्जुनः पुत्रमुत्पादयामास बभ्रुवाहनं नाम ।
एते त्रयोदश पुत्राः पाण्डवानाम् ॥ १.६३.८१ ॥
Puis Arjuna engendra un fils nommé Babhruvāhana avec Citrāṅgadā, la fille du seigneur de Maṇalūru. Tels furent les treize fils des Pāṇḍava.
1.63.82
विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपेयेमे ।
तस्यामस्य परासुर्गर्भोऽजायत ॥ १.६३.८२ ॥
Abhimanyu épousa Uttarā, fille de Virāṭa. En elle, son embryon naquit sans vie.
1.63.83
तमुत्सङ्गे प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य ।
षाण्मासिकं गर्भमहं जीवयामि पादस्पर्शादिति वासुदेव उवाच ॥ १.६३.८३ ॥
Sur l'ordre du meilleur des hommes, Pṛthā le reçut sur ses genoux. « Je ranimerai cet embryon de six mois par le contact de mon pied », dit Vāsudeva.
1.63.84
अहं जीवयामि कुमारमनन्तवीर्यं जात एवायमजायत ।
अभिमन्योः सत्येन चेयं पृथिवी धारयत्विति वासुदेवस्य पादस्पर्शात्सजीवोऽजायत।
नाम तस्याकरोत्सुभद्रा ॥ १.६३.८४ ॥
« Je ferai revivre ce prince à la vaillance infinie. » Né aussitôt, il naquit ; par la vérité d'Abhimanyu et pour que cette terre le soutienne, par le contact du pied de Vāsudeva, il naquit vivant. Subhadrā lui donna son nom.
1.63.85
परिक्षीणे कुले जात उत्तरायां परंतपः ।
परिक्षिदभवत्तस्मात्सौभद्रात्तु यशस्विनः ॥ १.६३.८५ ॥
Lorsque la lignée était presque éteinte, naquit d'Uttarā un fils, tourment des ennemis ; ainsi, par le glorieux fils de Subhadrā, il fut appelé Parikṣit.
1.63.86
परीक्षित्तु खलु भद्रवतीं नामोपयेमे ।
तस्यां तत्र भवाञ्जनमेजयः ॥ १.६३.८६ ॥
Parikṣit épousa en effet une jeune fille nommée Bhadravatī ; d'elle naquit alors le vénérable Janamejaya.
1.63.87
जनमेजयात्तु भवतः खलु वपुष्टमायां पुत्रौ द्वौ शतानीकः शङ्कुकर्णश्च ॥ १.६३.८७ ॥
De Janamejaya, en effet, et de Vapuṣṭamā naquirent deux fils : Śatānīka et Śaṅkukarṇa.
1.63.88
शतानीकस्तु खलु वैदेहीमुपयेमे ।
तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः ॥ १.६३.८८ ॥
Śatānīka épousa en effet la Vaidehī ; d'elle naquit son fils Aśvamedhadatta.
1.63.89
इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः ।
पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ १.६३.८९ ॥
Ainsi a été racontée la lignée de Pūru et celle des Pāṇḍavas ; celui qui entend cette lignée de Pūru est délivré de tous les péchés.