Rāmāyaṇa de Vālmīki · Sarga 7.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.39.1
ते प्रयाता महात्मानः पार्थिवास्ते प्रहृष्टवत् ।
गजवाजिसहस्रौघैः कम्पयन्तो वसुन्धराम् ॥ ७.३९.१ ॥
Ces rois magnanimes se mirent en marche, joyeux, faisant trembler la terre sous des milliers d'éléphants et de chevaux.
7.39.2
अक्षौहिण्यो हि तत्रासन्राघवार्थे समुद्यताः ।
भरतस्याज्ञया ऽनेकाः प्रहृष्टा बलवाहनाः ॥ ७.३९.२ ॥
Là, pour Rāghava, sur l'ordre de Bharata, de nombreuses akṣauhiṇī étaient prêtes, leurs troupes et véhicules joyeux.
7.39.3
ऊचुस्ते च महीपाला बलदर्पसमन्विताः ।
न रामरावणं युद्धे पश्यामः पुरतः स्थितम् ॥ ७.३९.३ ॥
Et ces rois, pleins d'orgueil de leur force, dirent : « Au combat, nous ne voyons pas Rāma et Rāvaṇa debout devant nous. »
7.39.4
भरतेन वयं पश्चात्समानीता निरर्थकम् ।
हता हि राक्षसाः क्षिप्रं पार्थिवैः स्युर्न संशयः ॥ ७.३९.४ ॥
« Bharata nous a fait venir en vain par l'arrière. Les rākṣasa seront vite abattus par des rois comme nous ; aucun doute. »
7.39.5
रामस्य बाहुवीर्येण रक्षिता लक्ष्मणस्य च ।
सुखं पारेसमुद्रस्य युध्येम विगतज्वराः ॥ ७.३९.५ ॥
« Protégés par la vaillance des bras de Rāma et par Lakṣmaṇa, libres de souci, nous combattrons aisément, même au-delà de l'océan. »
7.39.6
एताश्चान्याश्च राजानः कथास्तत्र सहस्रशः ।
कथयन्तः स्वराज्यानि जग्मुर्हर्षसमन्विताः ॥ ७.३९.६ ॥
Parlant de cela et de milliers d'autres choses, les rois, remplis de joie, s'en retournèrent vers leurs royaumes.
7.39.7
स्वानि राज्यानि मुख्यानि ऋद्धानि मुदितानि च ।
समृद्धधनधान्यानि पूर्णानि वसुमन्ति च ॥ ७.३९.७ ॥
Leurs royaumes principaux, prospères et joyeux, regorgeant de richesses et de grains, pleins de trésors.
7.39.8
यथापुराणि ते गत्वा रत्नानि विविधान्यथ ।
रामस्य प्रियकामार्थमुपहारान् नृपा ददुः ॥ ७.३९.८ ॥
Ces rois, retournés dans leurs anciens royaumes, apportèrent des joyaux variés et offrirent des présents pour plaire à Rāma.
7.39.9
अश्वान्यानानि रत्नानि हस्तिनश्च मदोत्कटान् ।
चन्दनानि च मुख्यानि दिव्यान्याभरणानि च ॥ ७.३९.९ ॥
Des chevaux, des véhicules, des joyaux, des éléphants furieux de rut, du santal de choix et des parures divines.
7.39.10
मणिमुक्ताप्रवालांस्तु दास्यो रूपसमन्विताः ।
अजाविकांश्च विविधान् रथांस्तु विविधान्ददुः ॥ ७.३९.१० ॥
Des gemmes, des perles et du corail, de belles servantes, des chèvres et des moutons, et divers chars, ils les donnèrent aussi.
7.39.11
भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलाः ।
आदाय तानि रत्नानि स्वां पुरीं पुनरागताः ॥ ७.३९.११ ॥
Les puissants Bharata, Lakṣmaṇa et Śatrughna, ayant pris ces joyaux, revinrent à leur propre cité.
7.39.12
आगम्य च पुरीं रम्यामयोध्यां पुरुषर्षभाः ।
तानि रत्नानि चित्राणि रामाय समुपाहरन् ॥ ७.३९.१२ ॥
Arrivés dans la belle cité d'Ayodhyā, ces taureaux parmi les hommes offrirent à Rāma ces joyaux merveilleux.
7.39.13
प्रतिगृह्य च तत्सर्वं रामः प्रीतिसमन्वितः ।
सुग्रीवाय ददौ राज्ञे महात्मा कृतकर्मणे ॥ ७.३९.१३ ॥
Ayant tout reçu, Rāma, plein d'affection, le donna au roi Sugrīva, qui avait accompli sa tâche.
7.39.14
बिभीषणाय च ददौ तथान्येभ्यो ऽपि राघवः ।
राक्षसेभ्यः कपिभ्यश्च यैर्वृतो जयमाप्तवान् ॥ ७.३९.१४ ॥
Rāghava donna aussi à Vibhīṣaṇa, aux autres rākṣasas et aux singes, entourés desquels il avait obtenu la victoire.
7.39.15
ते सर्वे रामदत्तानि रत्नानि कपिराक्षसाः ।
शिरोभिर्धारयामासुर्बाहुभिश्च महाबलाः ॥ ७.३९.१५ ॥
Tous ces singes et rākṣasas, très puissants, portaient les joyaux donnés par Rāma sur la tête et dans leurs bras.
7.39.16
हनूमन्तं च नृपतिरिक्ष्वाकूणां महारथः ।
अङ्गदं च महाबाहुमङ्कमारोप्य वीर्यवान् ॥ ७.३९.१६ ॥
Rāma, roi des Ikṣvākus, grand guerrier et vaillant, plaça sur ses genoux Hanumān et Aṅgada aux bras puissants.
7.39.17
रामः कमलपत्राक्षः सुग्रीवमिदमब्रवीत् ।
अङ्गदस्ते सुपुत्रो ऽयं मन्त्री चाप्यनिलात्मजः ॥ ७.३९.१७ ॥
Rāma, aux yeux de pétales de lotus, dit à Sugrīva : « Cet Aṅgada est ton bon fils, et ce fils du vent est aussi un ministre. »
7.39.18
सुग्रीवमन्त्रिते युक्तौ मम चापि हिते रतौ ।
अर्हतो विविधां पूजां त्वत्कृते वै हरीश्वर ॥ ७.३९.१८ ॥
Ces deux-là, engagés dans les conseils de Sugrīva et heureux de mon bien, méritent toutes sortes d'honneurs, à cause de toi, ô seigneur des singes.
7.39.19
इत्युक्त्वा व्यवमुच्याङ्गाद्भूषणानि महायशाः ।
स बबन्ध महार्हाणि तदाङ्गदहनूमतोः ॥ ७.३९.१९ ॥
Ayant ainsi parlé, le très renommé retira les ornements de son corps et en attacha de très précieux à Aṅgada et Hanumān.
7.39.20
आभाष्य च महावीर्यान्राघवो यूथपर्षभान् ।
नीलं नलं केसरिणं कुमुदं गन्धमादनम् ॥ ७.३९.२० ॥
S'adressant aux vaillants chefs de troupes, taureaux parmi eux — Nīla, Nala, Kesarin, Kumuda et Gandhamādana —, Rāghava parla.
7.39.21
सुषेणं पनसं वीरं मैन्दं द्विविदमेव च ।
जाम्बवन्तं गवाक्षं च विनतं धूम्रमेव च ॥ ७.३९.२१ ॥
Suṣeṇa, Panasa, le héros Maindā et Dvivida, ainsi que Jāmbavān, Gavākṣa, Vinata et Dhūmra.
7.39.22
वलीमुखं प्रजङ्घं च सन्नादं च महाबलम् ।
दरीमुखं दधिमुखमिन्द्रजानुं च यूथपम् ॥ ७.३९.२२ ॥
Valīmukha, Prajaṅgha, le puissant Sannāda, Darīmukha, Dadhimukha et le chef de troupes Indrajānu.
7.39.23
मधुरं श्लक्ष्णया वाचा नेत्राभ्यामापिबन्निव ।
सुहृदो मे भवन्तश्च शरीरं भ्रातरस्तथा ॥ ७.३९.२३ ॥
D'une voix douce et tendre, les buvant des yeux, Rāma dit : « Vous êtes mes amis, vous êtes mon corps et de même mes frères. »
7.39.24
युष्माभिरुद्धृतश्चाहं व्यसनात्काननौकसः ।
धन्यो राजा च सुग्रीवो भवद्भिः सुहृदां वरैः ॥ ७.३९.२४ ॥
Vous, habitants de la forêt, m'avez sauvé du malheur. Heureux est le roi Sugrīva, qui vous a pour amis, les meilleurs.
7.39.25
एवमुक्त्वा ददौ तेभ्यो भूषणानि यथार्हतः ।
वज्राणि च महार्हाणि सस्वजे च नरर्षभः ॥ ७.३९.२५ ॥
Ayant ainsi parlé, il leur donna des ornements selon leur mérite et de précieux joyaux, et le taureau des hommes les embrassa.
7.39.26
ते पिबन्तः सुगन्धीनि मधूनि मधुपिङ्गलाः ।
मांसानि च सुमृष्टानि मूलानि च फलानि च ॥ ७.३९.२६ ॥
Buvant des hydromels parfumés, dorés de miel, ils mangeaient des viandes bien apprêtées, des racines et des fruits.
7.39.27
एवं तेषां निवसतां मासः साग्रो ययौ तदा ।
मुहूर्तमिव ते सर्वे रामभक्त्या च मेनिरे ॥ ७.३९.२७ ॥
Ainsi, tandis qu'ils demeuraient là, plus d'un mois s'écoula, et par dévotion pour Rāma ils le tenaient tous pour un seul instant.
7.39.28
रामो ऽपि रेमे तैः सार्धं वानरैः कामरूपिभिः ।
राक्षसैश्च महावीर्यैर्ऋक्षैश्चैव महाबलैः ॥ ७.३९.२८ ॥
Rāma aussi se réjouit avec eux : les vānaras qui prenaient à volonté la forme qu'ils voulaient, les rākṣasas de grande puissance et les ours de grande force.
7.39.29
एवं तेषां ययौ मासो द्वितीयः शिशिरः सुखम् ।
वानराणां प्रहृष्टानां राक्षसानां च सर्वशः ॥ ७.३९.२९ ॥
Ainsi, leur second mois de Śiśira passa heureusement, les vānaras et les rākṣasas se réjouissant entièrement.
7.39.30
इक्ष्वाकुनगरे रम्ये परां प्रीतिमुपासताम् ।
रामस्य प्रीतिकरणैः कालस्तेषां सुखं ययौ ॥ ७.३९.३० ॥
Dans la ravissante cité des Ikṣvākus, ils goûtaient une joie suprême ; par les actes qui plaisaient à Rāma, leur temps s'écoula dans le bonheur.