梨俱吠陀 · 赞歌 4.58
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.58.1
स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा॑र॒दुपां॒शुना॒ सम॑मृत॒त्वमा॑नट् ।
घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना॑म॒मृत॑स्य॒ नाभिः॑ ॥
一道甘美的波浪从海洋升起,与不死相合。酥油的隐秘之名,乃是诸神的舌,不死之物的中心。
4.58.2
व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा॑रयामा॒ नमो॑भिः ।
उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा॑नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ॥
我们宣说酥油之名;在此祭祀中,我们以礼敬持守它。愿受赞颂的梵者听闻;四角的黄褐色公牛已发出这声吼叫。
4.58.3
च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता॑सो अस्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ॥
他有四角、三足、两首、七手。被三重束缚的公牛吼叫;伟大的神进入了凡人之中。
4.58.4
त्रिधा॑ हि॒तं प॒णिभि॑र्गु॒ह्यमा॑नं॒ गवि॑ दे॒वासो॑ घृ॒तमन्व॑विन्दन् ।
इन्द्र॒ एकं॒ सूर्य॒ एकं॑ जजान वे॒नादेकं॑ स्व॒धया॒ निष्ट॑तक्षुः ॥
酥油以三种方式安置,又被诸Paṇi隐藏;诸神在母牛中找到了它。因陀罗生出一份,太阳生出一份;从Vena得一份,又以自己的svadhā造出一份。
4.58.5
ए॒ता अ॑र्षन्ति॒ हृद्या॑त्समु॒द्राच्श॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे॑ ।
घृ॒तस्य॒ धारा॑ अ॒भि चा॑कशीमि हिर॒ण्ययो॑ वेत॒सो मध्य॑ आसाम् ॥
这些从心中、从海洋流出,沿百条路径而行,不为敌意的眼睛所见。我注视酥油的河流;在它们之中有一座金色的芦苇之座。
4.58.6
स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना॑ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा॑नाः ।
ए॒ते अ॑र्षन्त्यू॒र्मयो॑ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ॥
如河流般,溪流顺畅流淌,于心中、以意念得以清净。这些酥油的波浪奔涌而出,如同渴望逃离投掷者的鹿群。
4.58.7
सिन्धो॑रिव प्राध्व॒ने शू॑घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः ।
घृ॒तस्य॒ धारा॑ अरु॒षो न वा॒जी काष्ठा॑ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ॥
如同疾驰于河道上的急流,被风驱动而奔涌;如同赤色强健的骏马,酥油的流水涨起,以波浪冲断木柴。
4.58.8
अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः॑ कल्या॒ण्यः॑ स्मय॑मानासो अ॒ग्निम् ।
घृ॒तस्य॒ धाराः॑ स॒मिधो॑ नसन्त॒ ता जु॑षा॒णो ह॑र्यति जा॒तवे॑दाः ॥
如同美丽的女子微笑着穿着同样的装饰走近,酥油的流水流向阿耆尼;它们抵达柴薪,而生知者因此欢喜而光辉闪耀。
4.58.9
क॒न्या॑ इव वह॒तुमेत॒वा~उ॑ अ॒ञ्ज्य॑ञ्जा॒ना अ॒भि चा॑कशीमि ।
यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा॑ अ॒भि तत्प॑वन्ते ॥
如同装饰华丽的少女在婚礼上引领新娘,我这受膏并盛装的人凝视着她们;在压榨苏摩之处、在祭祀之处,酥油的流水便奔流而去。
4.58.10
अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त ।
इ॒मं य॒ज्ञं न॑यत दे॒वता॑ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ॥
快快趋向美好的赞歌与争夺牛群的竞赛;赐予我们吉祥的财富。诸神啊,请将此祭祀带到我们这里;酥油的流水甘美地流淌。
4.58.11
धाम॑न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य॑न्तरायु॑षि ।
अ॒पामनी॑के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ॥
在你的居所中安置着一切世界:在海洋之中,在心中,在生命之中。愿我们获得那甘美的波浪,它在水之军中、在集会中被带来。