Vedyatra वेदयात्रा
Search

Upaniṣads · Bṛhadāraṇyaka 3.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

Bṛhadāraṇyaka 3.7.1

(उद्दालकब्राह्मणं, अन्तर्यामिब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम्)
अथैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच ।
मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः ।
तस्यासीद्भार्या गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्कबन्ध आथर्वण इति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् ।
इति तेभ्योऽब्रवीत् ।
तदहं वेद ।
तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति ।
वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति ।
यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ ३.७.१ ॥

Here Uddālaka Āruṇi asked Yājñavalkya. He said: We were living in the land of the Madras, studying the sacrifice in the houses of Patañcala Kāpya. His wife was possessed by a gandharva. We asked him: Who are you? He said: I am Kabandha, the son of Atharvan. He said to Patañcala Kāpya and the sacrificers: O Kāpya, do you know the thread on which this world, the other world, and all beings are strung together? Patañcala Kāpya said: Venerable sir, I do not know it. Again he said: O Kāpya, do you know the inner controller who controls this world, the other world, and all beings from within? Patañcala Kāpya said: Venerable sir, I do not know him. He said: Whoever knows that Kāpya thread and that inner controller is a knower of brahman, a knower of the worlds, a knower of the gods, a knower of the Vedas, a knower of the ātman, a knower of all. He told them this. I know it. O Yājñavalkya, if you drive the brahmin's cows without knowing that thread and that inner controller, your head will fall off. Yājñavalkya said: O Gautama, I truly know that thread and that inner controller. Whoever says I know, I know, should speak as you know.

Bṛhadāraṇyaka 3.7.2

स होवाच वायुर्वै गौतम तत्सूत्रम् ।
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ।
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति ।
वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ।
अन्तर्यामिणं ब्रूहीति ॥ ३.७.२ ॥

He said: Gautama, air is that thread. By this air-thread, O Gautama, this world, the other world, and all beings are strung together. Therefore, O Gautama, of a dead man they say his limbs have come loose, for it is by the air-thread, O Gautama, that they are held together. Yājñavalkya, it is just so. Now tell me of the inner controller (antaryāmin).

Bṛhadāraṇyaka 3.7.3

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.३ ॥

He who abides in the earth, who is within the earth, whom the earth does not know, whose body the earth is, who controls the earth from within—he is your inner controller, the immortal ātman.

Bṛhadāraṇyaka 3.7.4

योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.४ ॥

He who abides in the waters, within the waters, whom the waters do not know, whose body the waters are, who controls the waters from within — he is your inner controller, the immortal ātman.

Bṛhadāraṇyaka 3.7.5

योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.५ ॥

He who abides in fire, within fire, whom fire does not know, whose body fire is, who controls fire from within — he is your inner controller, the immortal ātman.

Bṛhadāraṇyaka 3.7.6

योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.६ ॥

He who abides in space, within space, whom space does not know, whose body space is, who controls space from within — he is your inner controller, the immortal ātman.

Bṛhadāraṇyaka 3.7.7

यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.७ ॥

He who abides in wind, within wind, whom wind does not know, whose body wind is, who controls wind from within — he is your inner controller, the immortal ātman.

Bṛhadāraṇyaka 3.7.8

यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.८ ॥

He who abides in heaven, who is within heaven, whom heaven does not know, whose body is heaven, who controls heaven from within—he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.9

य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.९ ॥

He who abides in the sun, who is within the sun, whom the sun does not know, whose body is the sun, who controls the sun from within—he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.10

यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१० ॥

He who abides in the directions, who is within the directions, whom the directions do not know, whose body is the directions, who controls the directions from within—he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.11

यश्चन्द्रतारके तिष्ठञ्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.११ ॥

He who abides in the moon and stars, who is within the moon and stars, whom the moon and stars do not know, whose body is the moon and stars, who controls the moon and stars from within—he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.12

य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१२ ॥

He who abides in space, within space, whom space does not know, whose body is space, who controls space from within — he is your inner controller (antaryāmin), the immortal ātman.

Bṛhadāraṇyaka 3.7.13

यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१३ ॥

He who abides in darkness, within darkness, whom darkness does not know, whose body is darkness, who controls darkness from within — he is your inner controller (antaryāmin), the immortal ātman.

Bṛhadāraṇyaka 3.7.14

यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१४ ॥

He who abides in light, within light, whom light does not know, whose body is light, who controls light from within — he is your inner controller (antaryāmin), the immortal ātman.

Bṛhadāraṇyaka 3.7.15

अथाधिभूतम् ।
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
इत्यधिभूतम् ॥ ३.७.१५ ॥

Now, the teaching concerning beings (adhibhūta): he who abides in all beings, within all beings, whom all beings do not know, whose body is all beings, who controls all beings from within — he is your inner controller (antaryāmin), the immortal ātman. Thus, the teaching concerning beings.

Bṛhadāraṇyaka 3.7.16

अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ ३.७.१६ ॥

Now concerning the self within: He who abides in breath, who is within breath, whom breath does not know, whose body breath is, who controls breath from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.17

यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१७ ॥

He who abides in speech, who is within speech, whom speech does not know, whose body speech is, who controls speech from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.18

यश्चक्षुषि तिष्ठञ्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१८ ॥

He who abides in the eye, who is within the eye, whom the eye does not know, whose body the eye is, who controls the eye from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.19

यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.१९ ॥

He who abides in the ear, who is within the ear, whom the ear does not know, whose body the ear is, who controls the ear from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.20

यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.२० ॥

He who dwells within the mind, yet is other than the mind, whom the mind does not know, whose body the mind is, who controls the mind from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.21

यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.२१ ॥

He who dwells within the skin, yet is other than the skin, whom the skin does not know, whose body the skin is, who controls the skin from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.22

यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ ३.७.२२ ॥

He who dwells within consciousness, yet is other than consciousness, whom consciousness does not know, whose body consciousness is, who controls consciousness from within — he is your ātman, the inner controller, the immortal.

Bṛhadāraṇyaka 3.7.23

यो रेतसि तिष्ठं रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता ।
नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता ।
एष त आत्मान्तर्याम्यमृतः ।
अतोऽन्यदार्तम् ।
ततो होद्दालक आरुणिरुपरराम ॥ ३.७.२३ ॥

He who dwells within the seed, yet is other than the seed, whom the seed does not know, whose body the seed is, who controls the seed from within — he is your ātman, the inner controller, the immortal. He is the unseen seer, the unheard hearer, the unthought thinker, the unknown knower. Apart from him there is no seer, no hearer, no thinker, no knower. He is your ātman, the inner controller, the immortal. Apart from this, all is suffering. Then Uddālaka Āruṇi fell silent.