Vedyatra वेदयात्रा
検索

ウパニシャッド · Chāndogya 2.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

Chāndogya 2.10.1

अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ २.१०.१ ॥

次に、自己に等しく死を超えた七種のサーマンを観想すべきである。ヒンカーラは三音節、プラスターヴァも三音節、それは等しい。

Chāndogya 2.10.2

आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २.१०.२ ॥

アーディは二音節、プラティハーラは四音節、その後ここに一つ、それは等しい。

Chāndogya 2.10.3

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ २.१०.३ ॥

ウドギータは三音節、ウパドラヴァは四音節;三つずつで等しくなり、一音節が余る;それは三音節であり、等しい。

Chāndogya 2.10.4

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविꣳशतिरक्षराणि ॥ २.१०.४ ॥

ニダーナは三音節、それも等しい。これらこそ二十二音節である。

Chāndogya 2.10.5

एकविꣳशत्यादित्यमाप्नोत्येकविꣳशो वा इतोऽसावादित्यो द्वाविꣳशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ॥ २.१०.५ ॥

二十一によって太陽(āditya)に至る。二十一番目はここからあの太陽である。二十二によって最高の太陽を超えて勝つ。それが天(nāka)であり、憂いのないものである。

Chāndogya 2.10.6

आप्नोति हादित्यस्य जयं परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधꣳ सामोपास्ते सामोपास्ते ॥ २.१०.६ ॥

彼は太陽(āditya)の勝利を得る。彼の勝利は太陽に勝つことより上である。このように知り、自己に等しく死を超えた七種のサーマン(sāman)を観想する者は、サーマンを観想する。