Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 2.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 2.9.1

अथ खल्वमुमादित्यꣳ सप्तविधꣳ सामोपासीत सर्वदा समस्तेन साम मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ २.९.१ ॥

此后,应当始终将那太阳作为七重娑摩(sāman)来修习:整体的娑摩,朝向我,朝向我;如此,完全地是娑摩。

Chāndogya 2.9.2

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात्तस्य यत्पुरोदयात्स हिङ्कारस्तदस्य पशवोऽन्वायत्तास्तस्मात्ते हिङ्कुर्वन्ति हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २.९.२ ॥

应当知道,这一切众生都依附于它。它在日出之前的部分是希卡拉(hiṅkāra);牲畜依附于它。因此它们发出“哼”的叫声,因为它们分享此娑摩的希卡拉。

Chāndogya 2.9.3

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या३ अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशꣳसाकामाः प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २.९.३ ॥

在初升时的那部分是普拉斯塔瓦(prastāva);人类依附于它。因此他们渴望赞颂,渴望受到称赞,分享此娑摩的普拉斯塔瓦。

Chāndogya 2.9.4

अथ यत्सङ्गववेलायाꣳ स आदिस्तदस्य वयाꣳस्यन्वायत्तानि तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः ॥ २.९.४ ॥

在朝食时刻的那部分是阿地(ādi);鸟类依附于它。因此它们在虚空中无所依托地自持而飞翔,因为它们分享此娑摩的阿地。

Chāndogya 2.9.5

अथ यत्संप्रति मध्यन्दिने स उद्गीथस्तदस्य देवा अन्वायत्तास्तस्मात्ते सत्तमाः प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः ॥ २.९.५ ॥

此刻正午时的,即是乌德吉陀;诸神依赖于它。因此他们是生主之后裔中最优秀者,乃乌德吉陀的分享者,因为此娑摩属于他们。

Chāndogya 2.9.6

अथ यदूर्ध्वं मध्यन्दिनात्प्रागपराह्णात्स प्रतिहारस्तदस्य दर्भा अन्वायत्तास्तस्मात्ते प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ २.९.६ ॥

此后午前至午后之间的,即是普拉提哈拉;吉祥草依赖于它。因此它们被击回时便倒下,因为它们是此娑摩普拉提哈拉的分享者。

Chāndogya 2.9.7

अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं दृष्ट्वा कक्षꣳ श्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो ह्येतस्य साम्नः ॥ २.९.७ ॥

此后午后至日落之前的,即是乌帕德拉瓦;林中之物依赖于它。因此它们见到人时便喊着“灌木丛”“坑穴”而逃走,因为它们是此娑摩乌帕德拉瓦的分享者。

Chāndogya 2.9.8

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो ह्येतस्य साम्न एवं खल्वमुमादित्यꣳ सप्तविधꣳ सामोपास्ते ॥ २.९.८ ॥

日落时首先出现的,即是尼陀那;祖先依赖于它。因此人们安置他们,因为他们是此娑摩尼陀那的分享者。如此,确实是把此太阳当作七分娑摩来崇拜。