奥义书 · Chāndogya 4.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 4.10.1
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास तस्य ह द्वादशवार्षाण्यग्नीन्परिचचार स ह स्मान्यानन्तेवासिनः समावर्तयꣳस्तं ह स्मैव न समावर्तयति ॥ ४.१०.१ ॥
迦摩罗之子优婆柯萨罗在阁跋罗之子真欲处修梵行。他侍奉火祭十二年。老师让其他弟子归家,却不让他归家。
Chāndogya 4.10.2
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव प्रवासाञ्चक्रे ॥ ४.१०.२ ॥
他的妻子对他说:梵行者,你已疲劳,你已很好地侍奉了火祭。告诉他,使火不要说你的坏话。但他对他什么也没说,就去了远方。
Chāndogya 4.10.3
स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधिभिः प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४.१०.३ ॥
他因病决定绝食。于是老师的妻子对他说:梵行者,你为何不吃?他说:此人身中有许多欲望,被种种疾病所阻;我充满了它们,所以我不吃。
Chāndogya 4.10.4
अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः ॥ ४.१०.४ ॥
于是诸火相互说道:“这位苦行的梵行者为我们的安好而侍奉了我们;来吧,我们告诉他。”于是他们对他说:
Chāndogya 4.10.5
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४.१०.५ ॥
“气息即梵,欢喜即梵,虚空即梵。”他答道:“我知道气息即梵,但欢喜与虚空我不知道。”他们说:“所谓欢喜,正是虚空;所谓虚空,正是欢喜。”于是他们把气息与虚空都教给了他。