Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 4.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 4.4.1

सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रोन्वहमस्मीति ॥ ४.४.१ ॥

Jābāla 之子 Satyakāma 对他的母亲 Jabālā 说:我将过梵行的生活;我属于哪个家族?

Chāndogya 4.4.2

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रवीथा इति ॥ ४.४.२ ॥

她对他说:孩子,我不知道你属于哪个家族。我年轻时在许多男人之间做侍女游荡,才有了你;我不知道你属于哪个家族。我的名字是 Jabālā,你的名字是 Satyakāma;你应当说:「我是 Satyakāma Jābāla」。

Chāndogya 4.4.3

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ४.४.३ ॥

他来到哈里德鲁马塔族的瞿昙面前说:"尊者,我将过梵行的生活;我来到您这里。"

Chāndogya 4.4.4

तꣳ होवाच किङ्गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरꣳ सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहꣳ सत्यकामो जाबालोऽस्मि भो इति ॥ ४.४.४ ॥

他问道:"孩子,你是哪一族的?"他回答:"先生,我不知道自己是哪一族的。我问过母亲,她回答我:'我年轻时在许多人家做侍女,生下了你;我不知道你是哪一族的。我的名字是遮婆罗,你的名字是真欲。'所以我是真欲·遮婆罗,先生。"

Chāndogya 4.4.5

तꣳ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधꣳ सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा सहस्रꣳ संपेदुः ॥ ४.४.५ ॥

他对他说:"只有婆罗门才能这样说。孩子,去拿柴薪来,我会带你前行;你没有背离真理。"于是,他接纳他为弟子,把四百头瘦弱的母牛分开,说:"孩子,跟随这些牛。"在赶着它们前行时,他说:"除非它们增至一千头,我不会回来。"他离开了许多年,直到它们变成一千头。