奥义书 · Chāndogya 6.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 6.8.1
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनँ स्वपितीत्याचक्षते स्वँह्यपीतो भवति ॥ ६.८.१ ॥
阿如那之子乌达拉迦对他的儿子白光说:亲爱的孩子,请从我这里了解梦境状态的终结。这个人入睡时,亲爱的孩子,他便与存在合一,回归到自己之中;所以人们说“他睡着了”,因为他已回归到自身之中。
Chāndogya 6.8.2
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनँ हि सोम्य मन इति ॥ ६.८.२ ॥
如同被线拴住的鸟儿,飞向这个方向又飞向那个方向,找不到别的栖身之处,只能回到它的系缚之处;亲爱的孩子,心也是如此,它飞向各个方向,找不到别的栖身之处,便只依靠生气,因为亲爱的孩子,心是被生气系缚的。
Chāndogya 6.8.3
अशनापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति तत्रितच्छुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.३ ॥
亲爱的,要认识饥与渴。当人想要进食时,唯有水带走所吃之物。正如人们说“牵牛者”“牵马者”“牵人者”,人们也称水为“牵引饥饿者”。这里有一株嫩芽升起;亲爱的,要知道它不会没有根。
Chāndogya 6.8.4
तस्य क्व मूलँ स्यादन्यत्रान्नादेवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ६.८.४ ॥
它的根若不在食物中,又会在哪里呢?同样,亲爱的,借食物这株嫩芽去寻找水的根;借水这株嫩芽,亲爱的,去寻找火(光)的根;借火这株嫩芽,亲爱的,去寻找有(真实存在)的根。亲爱的,这一切众生都以有为根,以有为居所,以有为依托。
Chāndogya 6.8.5
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यतीति ॥ ६.८.५ ॥
再者,当人感到渴时,唯有火(热)带走所饮之物。正如人们说“牵牛者”“牵马者”“牵人者”,人们也称那火为“牵引渴者”(udanyā)。这里有一株嫩芽升起;亲爱的,要知道它不会没有根。
Chāndogya 6.8.6
तस्य क्व मूलँ स्यादन्यत्राद्भ्य्ऽद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठा यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवत्यस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६.८.६ ॥
它的根若不在水中,又会在哪里呢?亲爱的,借水这株嫩芽去寻找火(光)的根;借火这株嫩芽,亲爱的,去寻找有(真实存在)的根。亲爱的,这一切众生都以有为根,以有为居所,以有为依托。亲爱的,正如这三位神灵抵达一个人时,各自都变为三重,如前所说;那么当此人临终离去时,语言融入意,意融入气息,气息融入火,火融入至高之神。
Chāndogya 6.8.7
स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.८.७ ॥
那细微之物,此一切以之为本质——那便是真实,那便是阿特曼,而你就是那个,白光啊。请尊者再为我讲解,他说。好吧,亲爱的,他回答道。