奥义书 · Chāndogya 7.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 7.1.1
अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तँ होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ ७.१.१ ॥
那罗陀说:'尊者,请教我。'便走近了萨纳特昆摩罗。他对他说:'带着你已经知道的来到我这里;之后我再告诉你更多。'于是他开口说道。
Chāndogya 7.1.2
ऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७.१.२ ॥
尊者啊,我已学过《梨俱》、《夜柔》、《娑摩》,第四是《阿闼婆》,第五是史诗与往世书——诸吠陀中的吠陀;祖先之学、诸神之学、宝藏、辩论、一道之学、诸神之学、梵之学、万物之学、刹帝利之学、星宿之学、蛇与神人之学——尊者啊,这一切我都已学过。
Chāndogya 7.1.3
सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतँ ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति तँ होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ७.१.३ ॥
那罗陀说:尊者,我只通晓诸咒,而不知自我(ātman)。我从像您这样的贤者那里听说,知晓自我者能超越忧愁。我正在忧愁之中;尊者,请引导我渡过忧愁的彼岸。他对他说:你所学的一切,不过是名称而已。
Chāndogya 7.1.4
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्स्वेति ॥ ७.१.४ ॥
萨那特昆玛罗说:名称即是《梨俱吠陀》、《夜柔吠陀》、《娑摩吠陀》,第四是《阿闼婆吠陀》,第五是史诗与往世书,是吠陀中的吠陀,祖灵之学,数术,诸神的宝藏,辩论,唯一之道,神学,梵学,众生之学,武士之学,星宿之学,蛇神与人类之学;这一切都只是名称。应当观想名称。
Chāndogya 7.1.5
स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीत्विति ॥ ७.१.५ ॥
萨那特昆玛罗说:以名称为梵而礼拜者,在名称所及之处,可随意往来。那罗陀说:尊者,名称之上是否还有更大的?他说:名称之上确有更大的;愿尊者告诉我。