Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.1.1

अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८.१.१ ॥

在这梵城之中,有一座小小的莲花形居所,其中有一小片虚空;那虚空之内所有的,正是应当寻求的,也正是应当探究的。

Chāndogya 8.1.2

तं चेद्ब्रूयुर्यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ ८.१.२ ॥

若有人问他:‘在这梵城之中有小小的莲花形居所,其中有一小片虚空;这里有什么是应当寻求和探究的呢?’——他应当回答。

Chāndogya 8.1.3

यावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन्समाहितमिति ॥ ८.१.३ ॥

外面的这片虚空有多大,心中的这片虚空也就有多大。天与地二者都包含在其中,恰恰在其内部;火与风二者,日与月二者,闪电与星辰;这里所有存在的和所不存在的,一切都包含在此之中。

Chāndogya 8.1.4

तं चेद्ब्रूयुरस्मिꣳश्चेदिदं ब्रह्मपुरे सर्वꣳ समाहितꣳ सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरामाप्नोति प्रध्वꣳसते वा किं ततोऽतिशिष्यत इति ॥ ८.१.४ ॥

若有人对他说:在这梵城(身体)中,一切、所有众生和所有欲望都汇聚其中;当它衰老或毁坏时,此后还剩下什么?

Chāndogya 8.1.5

स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत्सत्यं ब्रह्मपुरमस्मिन्कामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पो यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८.१.५ ॥

他应当说:它不因自身的衰老而衰老,也不因被杀而被杀。这是真实的梵城,其中聚集着欲望。这个我(ātman)远离罪恶,远离衰老、死亡、忧伤、饥渴,愿望真实,决心真实。正如此间的众生,依照命令,依赖于他们所希望的任何目的、任何国土或田地的部分,他们便只依靠那个而生活。

Chāndogya 8.1.6

तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति ॥ ८.१.६ ॥

正如此世通过行为所赢得的世界会耗尽,彼世通过功德所赢得的世界也会耗尽。凡在此识知了我(ātman),获得这些真实欲望而离去的人,在一切世界中都有无欲而行(akāmacāra)。而凡在此识知了我,带着这些真实欲望而离去的人,在一切世界中都有随欲而行(kāmacāra)。