奥义书 · Chāndogya 8.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 8.9.1
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८.९.१ ॥
于是因陀罗未到诸神那里便看到了这种危险:正如这身体装饰精美时便成为被装饰的,穿着好衣服时便成为衣着华美的,被打扮时便成为被打扮的;同样,它瞎了便成为瞎的,跛了便成为跛的,被残毁便成为残毁的。只去寻找这身体的毁灭吧,它会消亡。我在此看不到可享受的东西。
Chāndogya 8.9.2
स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन्पुनरागम इति स होवाच यथैव खल्वयं भगवोऽस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ॥ ८.९.२ ॥
他手持柴薪再次归来。生主对他说:“摩伽婆,你怀着平静的心与毗卢遮一同出家而去;如今你想要什么,才又回来?”他说:“尊者,正如这身体装饰精美时便成为被装饰的,穿着好衣服时便成为衣着华美的,被打扮时便成为被打扮的;同样,它瞎了便成为瞎的,跛了便成为跛的,被残毁便成为残毁的。只去寻找这身体的毁灭吧,它会消亡。我在此看不到可享受的东西。”
Chāndogya 8.9.3
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.९.३ ॥
“摩伽婆,事情正是如此。”说完,他又说:“我将再为你详细解说;你再住三十二年。”于是他又住了三十二年,并且那人把这些告诉了他。