Vedyatra वेदयात्रा
Rechercher

Mahābhārata · Adhyāya 2.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Lire avec le sens des mots

2.4.1

तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत् ।
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः ॥ २.४.१ ॥

Ayant construit cette salle excellente, Maya dit à Arjuna : la troupe des êtres de grande puissance servira de serviteurs au sommet de l'étendard.

2.4.2

तव विष्फारघोषेण मेघवन्निनदिष्यति ।
अयं हि सूर्यसङ्काशो ज्वलनस्य रथो महान् ॥ २.४.२ ॥

Au son de la corde de ton arc il grondera comme un nuage. Ce grand char, semblable au soleil, est celui d'Agni.

2.4.3

इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः ।
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः ॥ २.४.३ ॥

Voici les chevaux blancs, puissants, nés au ciel, les meilleurs. Et cet étendard, marqué du singe, a été fait d'illusion.

2.4.4

असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः ।
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम् ॥ २.४.४ ॥

Ne s'accrochant pas aux arbres, dressé haut comme une comète, l'étendard multicolore marqué du singe sera visible.

2.4.5

ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम् ।
एव वीरः सव्यसाचिन्ध्वजस्यान्ते भविष्यति ॥ २.४.५ ॥

Au combat tu verras l'étendard élevé, incomparable, dressé. Ô Savyasācin, ce héros sera au sommet de cet étendard.

2.4.6

इत्युक्त्वाऽऽलिङ्ग्य वीभत्सुं विसृष्टः प्रययौ मयः। ॥ २.४.६ ॥

Ayant ainsi parlé et embrassé Vībhatsu (Arjuna), Maya, congédié, s'en alla.

2.4.7

ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः ।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः ॥ २.४.७ ॥

Alors le roi Yudhiṣṭhira célébra dans ce palais la cérémonie d'entrée et nourrit dix mille brahmanes.

2.4.8

साज्येन पायसेनैव मधुना मिश्रितेन च ।
भक्ष्यैर्मूलैः फलैश्चैव मांसैर्वाराहहारिणैः।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः ॥ २.४.८ ॥

avec du riz au lait mêlé de ghee et de miel, des mets comestibles, des racines et des fruits, de la viande de sanglier, du kṛsara, du jīvantī et de la nourriture d'offrande, de toutes les façons.

2.4.9

मांसप्रकारैर्विविधैः खाद्यैश्चापि तथा नृप ।
चोष्यैश्च विविधै राजन्पेयैश्च बहुविस्तरैः ॥ २.४.९ ॥

Ô roi, avec diverses sortes de viandes, des aliments comestibles, des choses à sucer et diverses boissons, en grande abondance.

2.4.10

अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ।
तर्पयामास विप्रेन्द्रान्नानादिग्भ्यः समागतान् ॥ २.४.१० ॥

Avec des vêtements neufs et des guirlandes de toutes sortes, il satisfit les plus éminents des brahmanes venus de toutes les directions.

2.4.11

ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः ।
पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ॥ २.४.११ ॥

Il donna à chacun d'eux des milliers de vaches, et s'éleva la proclamation de bon augure, comme si elle touchait le ciel, ô Bhārata.

2.4.12

वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि ।
पूजयित्वा कुरुश्रेष्ठो देवतानि निवेश्य च ॥ २.४.१२ ॥

Avec des instruments divins de toutes sortes et des parfums variés, le meilleur des Kurus honora les dieux et les installa.

2.4.13

तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा ।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥ २.४.१३ ॥

Là, lutteurs, danseurs, bouffons, bardes et chanteurs de cour se présentèrent auprès du magnanime Yudhiṣṭhira, fils de Dharma.

2.4.14

तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः ।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ २.४.१४ ॥

Ayant accompli ce culte avec ses frères, le Pāṇḍava se réjouit dans cette salle d'assemblée ravissante, comme Indra au ciel.

2.4.15

सभायामृषयस्तस्यां पाण्डवैः सह आसते ।
आसाञ्चक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ २.४.१५ ॥

Dans cette assemblée, les sages siégeaient avec les Pāṇḍava, et les rois venus de diverses contrées prirent place.

2.4.16

असितो देवलः सत्यः सर्पिर्माली महाशिराः ।
अर्वा वसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥ २.४.१६ ॥

Asita, Devala, Satya, Sarpirmālī, Mahāśirā, Arvā, Vasu, Sumitra, Maitreya, Śunaka et Bali.

2.4.17

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः ।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ २.४.१७ ॥

Baka, Dālbhya, Sthūlaśirā, Kṛṣṇa Dvaipāyana (Vyāsa), Śuka, Sumantu, Jaimini et Paila ; les disciples de Vyāsa, et nous aussi.

2.4.18

तित्तिरिर्याज्ञवल्क्यश्च ससुतो रोमहर्षणः ।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ ॥ २.४.१८ ॥

Tittiri, Yājñavalkya, Romaharṣaṇa avec son fils, Apsuhomya, Dhaumya, et Aṇīmāṇḍavya et Kauśika.

2.4.19

दामोष्णीपस्त्रैबलीश्च पर्णादो घटजानुकः ।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः ॥ २.४.१९ ॥

Dāmoṣṇīpa, Traibalī, Parṇāda, Ghaṭajānuka, Mauñjāyana, Vāyubhakṣa, Pārāśarya et Sārika.

2.4.20

बलिवाकः सिनीवाकः सप्तपालः कृतश्रमः ।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः ॥ २.४.२० ॥

Balivāka, Sinīvāka, Saptapāla, Kṛtaśrama, Jātūkarṇa, Śikhāvān, Ālamba et Pārijātaka.

2.4.21

पर्वतश्च महाभागो मार्कण्डेयो महामुनिः ।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा ॥ २.४.२१ ॥

Parvata, le grand bienheureux Mārkaṇḍeya, le grand sage Pavitrapāṇi, Sāvarṇa, Bhālukī et Gālava également.

2.4.22

जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः ।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ २.४.२२ ॥

Jaṅghābandhu, Raibhya, Kopavega, Bhṛgu, Haribabhru, Kauṇḍinya, Babhrumālī et Sanātana.

2.4.23

काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः ।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥ २.४.२३ ॥

Kākṣīvat, Auśija, Nāciketa aussi, puis Gautama, Paiṅgya, Varāha, Śunaka, Śāṇḍilya et le grand ascète.

2.4.24

कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च ।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः ॥ २.४.२४ ॥

Kukkura, Veṇujaṅgha, puis Kālāpa et aussi Kaṭha. Ces sages connaissaient le dharma, maîtrisaient leur âme et avaient vaincu leurs sens.

2.4.25

एते चान्ये च बहवो वेदवेदाङ्गपारगाः ।
उपासते महात्मानं सभायामृषिसत्तमाः ॥ २.४.२५ ॥

Ceux-ci et beaucoup d'autres, maîtres des Veda et de leurs annexes, les meilleurs des sages, servent le magnanime dans l'assemblée.

2.4.26

कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥ २.४.२६ ॥

Récitant des histoires sacrées, connaisseurs du dharma, purs et sans tache, de même les meilleurs des guerriers servent le roi du dharma.

2.4.27

श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ।
सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान्। ॥ २.४.२७ ॥

Le glorieux, magnanime, à l'âme juste Muñjaketu, Vivardhana, Saṅgrāmajit, Durmukha et le vaillant Ugrasena.

2.4.28

कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।
कम्बोजराजः कमठः कम्पनश्च महाबलः ॥ २.४.२८ ॥

Kakṣasena, seigneur de la terre, Kṣemaka, l'invaincu Aparājita, le roi des Kamboja Kamaṭha et le puissant Kampana.

2.4.29

सततं कम्पयामास यवनानेक एव यः ।
बलपौरुषसम्पन्नान्कृतास्त्रानमितौजसः।
यथाऽसुरान्कालकेयान्देवो वज्रधरस्तथा ॥ २.४.२९ ॥

Celui qui, seul, faisait constamment trembler les Yavana, ces hommes doués de force et de vaillance, experts aux armes, d'une puissance sans mesure, comme le dieu porteur de la foudre fit trembler les asuras Kālakeya.

2.4.30

जटासुरो मद्रकानां च राजा ।
कुन्तिः पुलिन्दश्च किरातराजः।
तथाङ्गवाङ्गौ सहपुण्ड्रकेण ।
पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥ २.४.३० ॥

Jaṭāsura, roi des Madraka, Kunti, Pulinda et le roi des Kirāta ; de même Aṅga et Vaṅga avec Puṇḍraka, et les rois des Pāṇḍya et des Uḍra avec Āndhraka.

2.4.31

अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः ।
किरातराजः सुमना यवनाधिपतिस्तथा ॥ २.४.३१ ॥

Aṅga, Vaṅga, Sumitra, Śaibya, le tourmenteur des ennemis, Sumanas, roi des Kirātas, et de même le seigneur des Yavanas.

2.4.32

चाणूरो देवरातश्च भोजो भीमरथश्च यः ।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ॥ २.४.३२ ॥

Cāṇūra, Devarāta, Bhoja, Bhīmaratha, Śrutāyudha, le roi de Kaliṅga, Jayasena et le roi de Magadha.

2.4.33

सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः ।
केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः ॥ २.४.३३ ॥

Sukarmā, Cekitāna, Puru le tourmenteur des ennemis, Ketumān, Vasudāna, le roi de Videha, puis Kṛtakṣaṇa.

2.4.34

सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ।
अनूपराजो दुर्धर्पः क्रमजिच्च सुदर्शनः ॥ २.४.३४ ॥

Sudharmā, Aniruddha, le puissant Śrutāyus, le roi d'Anūpa, l'invincible Durdharṣa, Kramajit et Sudarśana.

2.4.35

शिशुपालः सहसुतः करूपाधिपतिस्तथा ।
वृष्णीनां चैव दुर्धर्पाः कुमारा देवरूपिणः ॥ २.४.३५ ॥

Śiśupāla avec son fils, de même le seigneur de Karūpa, et les princes invincibles des Vṛṣṇis, semblables aux dieux.

2.4.36

आहुको विपृथुश्चैव गदः सारण एव च ।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः ॥ २.४.३६ ॥

Āhuka, Vipṛthu, Gada, Sāraṇa, Akrūra, Kṛtavarman et Satyaka, fils de Śini.

2.4.37

भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान् ।
केकयाश्च महेष्वासा यज्ञसेनश्च सोमकिः ॥ २.४.३७ ॥

Bhīṣmaka, puis Ākṛti, le puissant Dyumatsena, les grands archers Kekaya, et Yajñasena, fils de Somaka.

2.4.38

केतुमान्वसुमांश्चैव कृतास्त्रश्च महाबलः ।
एते चान्ये च बहवः क्षत्रिया मुख्यसंमताः। ॥ २.४.३८ ॥

Ketumān, Vasumān, le grand guerrier versé dans les armes, et beaucoup d'autres kṣatriya tenus en haute estime.

2.4.39

उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम् ।
अर्जुनं ये व संश्रित्य राजपुत्रा महाबलाः ॥ २.४.३९ ॥

Ils servaient dans l'assemblée Yudhiṣṭhira, fils de Kuntī, et les princes de grande force qui s'étaient placés sous la protection d'Arjuna.

2.4.40

अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ।
तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः। ॥ २.४.४० ॥

Vêtus de peaux de cerf ruru, ils apprirent la science de l'arc ; et là, ô roi, furent formés les princes, joie de la lignée des Vṛṣṇi.

2.4.41

रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ।
सुधर्मा चानिरुद्धश्च शैव्यश्च नरपुङ्गवः ॥ २.४.४१ ॥

Le fils de Rukmiṇī, Sāmba, Yuyudhāna, Sātyaki, Sudharmā, Aniruddha et Śaibya, le meilleur des hommes.

2.4.42

एते चान्ये च बहवो राजानः पृथिवीपते ।
धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ २.४.४२ ॥

Ceux-ci et beaucoup d'autres rois, ô seigneur de la terre ; et Tumburu, ami de Dhanañjaya, demeurait toujours ici.

2.4.43

उपासते महात्मानमासीनं सप्तविंशतिः ।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ॥ २.४.४३ ॥

Vingt-sept (êtres) servaient le magnanime assis là ; Citrasena avec ses ministres, ainsi que les gandharvas et les apsaras.

2.4.44

गीतवादित्रकुशलाः साम्यतालविशारदाः ।
प्रमाणोऽथ लये स्थाने किन्नराः कृतनिश्रमाः ॥ २.४.४४ ॥

Les kinnaras, habiles au chant et aux instruments, experts en rythme harmonieux, justes en mesure et en place, s'étaient appliqués avec zèle.

2.4.45

सञ्चोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा ।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः ॥ २.४.४५ ॥

Alors, poussés par Tumburu et accompagnés des gandharvas, ces esprits élevés chantaient avec des mélodies divines, comme il convient.

2.4.46

पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ।
तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः ॥ २.४.४६ ॥

Réjouissant les fils de Pāṇḍu et les sages, ils les servaient ; assis dans cette assemblée se trouvaient ceux aux vœux fermes et aux serments véridiques.

2.4.47

दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ २.४.४७ ॥

Comme les dieux au ciel servent Brahmā, ainsi servaient-ils Yudhiṣṭhira.