奥义书 · Aitareya 1.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Aitareya 1.2.1
ता एता देवता सृष्टा अस्मिन्महत्यर्णवे प्रापतन् । तमशनापिपासाभ्यामन्ववार्जत् । ता एनमब्रुवन्नायतनं नः प्रजानीहि यस्मिन्प्रतिष्ठिता अन्नमदामेति ॥ १.२.१ ॥
这些神祇被创造后,坠入这大海之中。饥渴压迫着他。他们对他说:为我们找一个住所,让我们在其中安住并得以进食。
Aitareya 1.2.2
ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयमलमिति । ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति ॥ १.२.२ ॥
他为他们带来一头牛。他们说:这确实不足以供养我们。他为他们带来一匹马。他们说:这也确实不足以供养我们。
Aitareya 1.2.3
ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वाव सुकृतम् । ता अब्रवीद्यथायतनं प्रविशतेति ॥ १.२.३ ॥
他为他们带来一个人。他们说:啊,这造得很好!人确实是善造之物。他对他们说:你们各自进入自己的住所吧。
Aitareya 1.2.4
अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशद्दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्नोषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशंश्चन्द्रमा मनो भूत्वा हृदयं प्राविशन्मृत्युरपानो भूत्वा नाभिं प्राविशदापो रेतो भूत्वा शिश्नं प्राविशन् ॥ १.२.४ ॥
火化为言语,进入口中。风化为呼吸(prāṇa),进入鼻孔。太阳化为眼睛,进入双眼。方位化为听觉,进入双耳。草木化为毛发,进入皮肤。月亮化为意(manas),进入心中。死亡化为下行气(apāna),进入肚脐。水化为精液,进入生殖器官。
Aitareya 1.2.5
तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीहीति ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति । तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनायापिपासे भवतः ॥ १.२.५ ॥
他们对他说:请为我们二者安排饥渴。他说:我将在这些神中给你们分配份额;在这些神中我使你们成为分享者。因此,凡取供物(havis)献给哪一位神,饥与渴便成为那位神的分享者。