Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.6.1

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयत इयमेव साग्निरमस्तत्साम ॥ १.६.१ ॥

此(大地)即是 ṛc,火即是 sāman。那 sāman 依托于这个 ṛc;因此依托于 ṛc 的 sāman 被歌唱。这即是火,而 amā 就是那个 sāman。

Chāndogya 1.6.2

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत्साम ॥ १.६.२ ॥

虚空即是 ṛc,风即是 sāman。那 sāman 依托于这个 ṛc;因此依托于 ṛc 的 sāman 被歌唱。虚空即是那个,而风就是那个 amā、那个 sāman。

Chāndogya 1.6.3

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते द्यौरेव सादित्योऽमस्तत्साम ॥ १.६.३ ॥

天界本身即是太阳,这便是娑摩(sāman)。此娑摩立于此梨俱(ṛc)之上;因此,立于梨俱之上的娑摩被歌唱。天界本身即是那太阳,它就是“阿摩”(ama);这便是娑摩。

Chāndogya 1.6.4

नक्षत्राण्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत्साम ॥ १.६.४ ॥

星辰本身即是梨俱(ṛc),月亮便是娑摩(sāman)。此娑摩立于此梨俱之上;因此,立于梨俱之上的娑摩被歌唱。星辰本身即是那梨俱,那月亮即是“阿摩”(ama);这便是娑摩。

Chāndogya 1.6.5

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते ॥ १.६.५ ॥

太阳那白色的光辉即是“婆”(bhā)。那青色、再往外的黑色,即是娑摩(sāman)。此娑摩立于此梨俱之上;因此,立于梨俱之上的娑摩被歌唱。

Chāndogya 1.6.6

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व एव सुवर्णः ॥ १.६.६ ॥

太阳那白色的光辉即是“娑”(sā)。那青色、再往外的黑色,即是“阿摩”(amaḥ),这便是娑摩(sāman)。此外,在太阳之中所见的那位金色之人,金须金发,从指甲尖到全身皆为金色。

Chāndogya 1.6.7

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १.६.७ ॥

他的眼睛如猴子的臀部和莲花。他的名字是“Udita”(升起者),因为他升起于一切罪恶之上。如此知晓者,便升起于一切罪恶之上。

Chāndogya 1.6.8

तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ १.६.८ ॥

他的诗节(ṛc)与歌咏(sāman)是他的两根支柱。因此他是 udgītha(高唱),也因此他是 udgātṛ(唱诵者),因为他是它的歌者。他也统治着那些为渴望诸神者而设的遥远世界——这便是 adhidaivata(神性层面)。