奥义书 · Chāndogya 4.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 4.16.1
एष ह वै यज्ञो योऽयं पवते एष ह यन्निदꣳ सर्वं पुनाति । यदेष यन्निदꣳ सर्वं पुनाति तस्मादेष एव यज्ञस्तस्य मनश्च वाक्च वर्तनी ॥ ४.१६.१ ॥
此即祭祀,于此流动而净化。此物净化一切。因其净化一切,故此即是祭祀。其二道为意与言。
Chāndogya 4.16.2
तयोरन्यतरां मनसा सꣳस्करोति ब्रह्मा वाचा होताध्वर्युरुद्गातान्यतराꣳस यत्रौपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यवदति ॥ ४.१६.२ ॥
彼以意行二者之一;梵祭司以言,而荐祭者、祭祀者、歌咏者行另一者。于上供仪式的晨诵中,在 paridhānīyā 颂之前,梵祭司高声宣说之处。
Chāndogya 4.16.3
अन्यतरामेव वर्तनीꣳ सꣳस्करोति हीयतेऽन्यतरा स यथैकपाद्व्रजन्रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञोरिष्यति यज्ञꣳ रिष्यन्तं यजमानोऽनुरिष्यति स इष्ट्वा पापीयान्भवति ॥ ४.१६.३ ॥
彼仅行二者之一,而另一者有所缺失。犹如单轮之车,以一轮而行,必致毁坏,其祭祀亦如是毁坏。祭祀既毁,祭主亦随之而毁;行祭之后,他反而更加罪深。
Chāndogya 4.16.4
अथ यत्रोपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यवदत्युभे एव वर्तनी सꣳस्कुर्वन्ति न हीयतेऽन्यतरा ॥ ४.१६.४ ॥
若在晨间阿奴瓦卡诵读时,于帕里达尼亚颂之前梵师出声,他们仍完成两条道路;两者都不会减损。
Chāndogya 4.16.5
स यथोभयपाद्व्रजन्रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनुप्रतितिष्ठति स इष्ट्वा श्रेयान्भवति ॥ ४.१६.५ ॥
正如双轮推进的车辆保持稳定,他的祭祀也保持稳定;追随稳定祭祀的施祭者也保持稳定。完成祭祀之后,他变得更为殊胜。