Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.1.1

श्वेतकेतुर्हारुणेय आस तँ ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१ ॥

阿如那之子白幡(Śvetaketu)在场。他的父亲对他说:白幡,去行梵行(brahmacarya)吧。亲爱的,在我们家族中,未曾学习吠陀的人,仿佛只是名义上的婆罗门亲属。

Chāndogya 6.1.2

स ह द्वादशवर्ष उपेत्य चतुर्विँशतिवर्षः सर्वान्वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तँह पितोवाच ॥ ६.१.२ ॥

他十二岁时去拜师,二十四岁时学完了所有吠陀,带着骄傲的心回来,自认为博学而傲慢。这时他的父亲对他说。

Chāndogya 6.1.3

श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्ष्यः येनाश्रुतँ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति ॥ ६.१.३ ॥

白幡,亲爱的,如果你如此骄傲,自认为博学而傲慢,你是否问过那种教导——借此未闻者成为已闻,未思者成为已思,未知者成为已知?尊者,那教导是怎样的?

Chāndogya 6.1.4

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६.१.४ ॥

亲爱的,正如认识一块泥团,便认识了所有由泥做成的东西;这些变化只是言语的开端、名称;真实只是它们即是泥土。

Chāndogya 6.1.5

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६.१.५ ॥

亲爱的,正如认识一块铁,便认识了所有由铁做成的东西;这些变化只是言语的开端、名称;真实只是它们即是铁。

Chāndogya 6.1.6

यथा सोम्यिकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातँ स्याद्वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यमेवँसोम्य स आदेशो भवतीति ॥ ६.१.६ ॥

亲爱的,正如认识一把指甲剪,便认识了所有由黑铁做成的东西;这些变化只是言语的开端、名称;真实只是它们即是黑铁。亲爱的,这就是教诲。

Chāndogya 6.1.7

न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्ध्येतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवाँस्त्वेव मे तद्ब्रवीत्विति तथा सोम्येति होवाच ॥ ६.१.७ ॥

(室维多吉图):那些尊贵的老师一定不知道这些,若知道,为何不告诉我?所以尊者您自己告诉我吧。(阿卢尼):好吧,亲爱的,他说道。