Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.11.1

अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन्स्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६.११.१ ॥

亲爱的孩子,若有人击打这棵大树的根部,它在活着时便会流出汁液;若击打中部,它在活着时便会流出汁液;若击打树梢,它在活着时便会流出汁液。这棵树被活着的自我(ātman)贯通,饮着水,欢欣地屹立着。

Chāndogya 6.11.2

अस्य यदेकाँ शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथ सा शुष्यति तृतीयां जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यत्येवमेव खलु सोम्य विद्धीति होवाच ॥ ६.११.२ ॥

当生命(jīva)离开这棵树的一根枝条时,那枝条便枯萎;离开第二根,那根也枯萎;离开第三根,那根也枯萎;若全部离开,整棵树便枯萎。亲爱的,应当这样理解,他说。

Chāndogya 6.11.3

जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत्सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.११.३ ॥

唯有生命(jīva)离去,这身体才真正死去;生命(jīva)不会死。那细微的精华就是这一切的自我;它就是真实,它就是自我(ātman),而你,Śvetaketu,就是它。请尊者再为我讲明,他说。好吧,亲爱的,他回答道。