Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.10.1

य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यद्यपीदꣳ शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.१ ॥

“在梦中光耀地游行的,那就是我(阿特曼)。”他说,“这是不死的,这是无畏的,这就是梵。”他怀着平静的心离去。但他未到诸神那里,就看到了这种危险:即使这身体瞎了,他也不会瞎;即使它跛了,他也不会跛。他不会被它的过失所污染。

Chāndogya 8.10.2

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ ८.१०.२ ॥

击打他,他并不会被杀死;击打他的身体,他的身体也不会被杀死。人们遮盖他,他就仿佛知道了不快之事,甚至仿佛哭泣:「在这里我看不到可享受之物。」

Chāndogya 8.10.3

स समित्पाणिः पुनरेयाय तꣳ ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.३ ॥

他手持柴薪再次来到。生主对他说:「摩ghavan,你曾心怀平静而离去;现在你想要什么而再次回来?」他说:「尊者,即使此身盲了,他也不会盲;即使此身无形,他也不因其过失而被玷污。」

Chāndogya 8.10.4

न वधेनास्य हन्यते नास्य स्राम्येण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिꣳशतं वर्षाणीति स हापराणि द्वात्रिꣳशतं वर्षाण्युवास तस्मै होवाच ॥ ८.१०.४ ॥

击打他,他并不会被杀死;击打他的身体,他的身体也不会被杀死。人们遮盖他,他就仿佛知道了不快之事,甚至仿佛哭泣:「在这里我看不到可享受之物。」「确实如此,摩ghavan,」他说,「但我将再详细为你解释;再住三十二年。」他又住了三十二年,然后才对他说话。