奥义书 · Chāndogya 8.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 8.3.1
त इमे सत्याः कामा अनृतापिधानास्तेषाꣳ सत्यानाꣳ सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ ८.३.१ ॥
这些真实的欲望被虚假所遮蔽,那些真实的覆盖物即是虚假。凡是从此处离去之人,在此处已不能再见到他。
Chāndogya 8.3.2
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ ८.३.२ ॥
那么,生活在此的人、已经逝去的人,以及那些想要却得不到的东西,他们前往那里都能获得;因为正是在此处,他的这些真实的欲望被虚假所遮蔽。好比人们走过埋藏的黄金宝藏之上,却不知其所在,便找不到它;同样,这一切众生日复一日地离去,却找不到这梵界,因为他们被虚假所迷惑。
Chāndogya 8.3.3
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तꣳ हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८.३.३ ॥
此阿特曼在心中;其词源正是如此:它就是“心”(hṛdaya)。因此,如此知晓之人每日都往天界而去。
Chāndogya 8.3.4
अथ य एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ८.३.४ ॥
那已平静的存在,从此身升起,抵达至上之光,以自身之形显现,此即阿特曼,他如是说。此为不死、无惧;此即梵。此梵之名为真实(satya)。
Chāndogya 8.3.5
तानि ह वा एतानि त्रीण्यक्षराणि सतीयमिति तद्यत्सत्तदमृतमथ यत्ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८.३.५ ॥
这三个音节是 sa-ti-yam。sat 即不死,ti 即有死。以 yam 他制御二者;以此他制御二者。故如是知者,日日往天界。