Vedyatra वेदयात्रा
搜索

奥义书 · Kena 1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Kena 1.1

ॐ केनेषितं पतति प्रेषितं मनः
केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति
चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १.१ ॥

唵。心被谁驱使而飞向其对象?被谁指派而第一气息(prāṇa)运行?人们在谁的驱使下说出这言语?哪位神将眼与耳系于其对象?

Kena 1.2

श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं
स उ प्राणस्य प्राणः चक्षुषश्चक्षुः ।
अतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ १.२ ॥

耳之耳、心之心、语之语者,亦是气息(prāṇa)之气息、眼之眼。智者超越诸根,离开此世,便成为不死者。

Kena 1.3

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः ।
न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ १.३ ॥

眼睛不能到达那里,言语不能到达,心也不能到达。我们不知道,也不理解,该如何指教此事。

Kena 1.4

अन्यदेव तद्विदितादथो अविदितादधि ।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ १.४ ॥

它不同于已知,也超越于未知。我们从为我们解说此事的先人那里如此听闻。

Kena 1.5

यद्वाचाऽनभ्युदितं येन वागभ्युद्यते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १.५ ॥

那不能被言语表达、而言语却由它而被表达的,你应当知道那就是梵;而人们在此所崇拜的并非梵。

Kena 1.6

यन्मनसा न मनुते येनाहुर्मनो मतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १.६ ॥

那不能被意所思、而人们说意由它而思的,你应当知道那就是梵;而人们在此所崇拜的并非梵。

Kena 1.7

यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १.७ ॥

那不能被眼所见、而眼睛却由它而见的,你应当知道那就是梵;而人们在此所崇拜的并非梵。

Kena 1.8

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १.८ ॥

那不能被耳所闻、而此耳由它而闻的,你应当知道那就是梵;而人们在此所崇拜的并非梵。

Kena 1.9

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ १.९ ॥

凭借它,气息不呼吸;凭借它,气息被推动——你应知这便是梵,而非人们在此所崇拜的那个。