奥义书 · Maitrāyaṇī 4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Maitrāyaṇī 4.1
तृतीयः प्रपाठकः ॥
ते ह खल्वथोर्ध्वरेतसोऽतिविस्मिता अतिसमेत्योचुर्भगवन्नमस्ते त्वं नः शाधि त्वमस्माकं गतिरन्या न विद्यत इत्यस्य कोऽतिथिर्भूतात्मनो येनेदं हित्वामन्येव सायुज्यमुपैति तान्होवाच ॥ ४.१ ॥
第三品。那些上行精液的仙人甚为惊讶,走近说道:尊者,敬礼您。请教导我们;除您之外,我们没有别的归宿。元素自我的客人是谁,凭借他,舍弃此身后,它与另一者合一?于是他对他们说。
Maitrāyaṇī 4.2
अथान्यत्राप्युक्तं महानदीषूर्मय इव निवर्तकमस्य यत्पुराकृतं समुद्रवेलेव दुर्निवार्यमस्य मृत्योरागमनं सदसत्फलमयैर्हि पाशैः पशुरिव बद्धं बन्धनस्थस्येवास्वातन्त्र्यं यमविषयस्थस्यैव बहुभयावस्थं मदिरोन्मत्त इवामोदममदिरोन्मत्तं पाप्मना गृहीत इव भ्राम्यमाणं महोरगदष्ट इव विपदृष्टं महान्धकार इव रागान्धमिन्द्रजालमिव मायामयं स्वप्नमिव मिथ्यादर्शनं कदलीगर्भ इवासारं नट इव क्षणवेषं चित्रभित्तिरिव मिथ्यामनोरममित्यथोक्तम् ॥ शब्दस्पर्शादयो येऽर्था अनर्था इव ते स्थिताः । येष्वासक्तस्तु भूतात्मा न स्मरेच्च परं पदम् ॥ ४.२ ॥
又有经文这样说:正如大河的波浪把人推回,他过去所作的业也把他推回。如同海岸不能被阻挡,死亡的到来对他而言难以阻止。他像牲畜一样被善恶果报所织成的绳索捆绑。如同身处牢狱之人,他没有自由。处于阎摩领域之中的人,有极大的恐惧。如同被酒醉的人,或无欢乐也无酒而醉的人,被罪恶抓住而四处流转。他看起来如同遭遇灾难,仿佛被大蛇咬伤。如同大黑暗,他因贪爱而致盲。如同幻术,他是由迷幻构成的。如同梦境,他的所见是虚假的。如同芭蕉的心,他没有实质。如同演员,他暂时披上戏服。如同彩绘的墙壁,他虚假地令人迷恋,正是如此说。声音、触觉等诸境仿佛成为祸害而存在。执着于它们的化身之我,不记起那至上的境界。
Maitrāyaṇī 4.3
अयं वा व खल्वस्य प्रतिविधिर्भूतात्मनो यद्येव विद्याधिगमस्य धर्मस्यानुचरणं स्वाश्रमेष्वानुक्रमणं स्वधर्म एव सर्वं धत्ते स्तम्भशाखेवेतराण्यनेनोर्ध्वभाग्भवत्यन्यथधः पतत्येष स्वधर्माभिभूतो यो वेदेषु न स्वधर्मातिक्रमेणाश्रमी भवत्याश्रमेष्वेवावस्थितस्तपस्वी चेत्युच्यत एतदप्युक्तं नातपस्कस्यात्मध्यानेऽधिगमः कर्मशुद्धिर्वेत्येवं ह्याह ॥ तपसा प्राप्यते सत्त्वं सत्त्वात्सम्प्राप्यते मनः । मनसा प्राप्यते त्वात्मा ह्यात्मापत्त्या निवर्तत इति ॥ ४.३ ॥
这确实是化身之我的对治之法:若依循通往获得知识的法,依次经历自己的各个生命阶段,那么自己的法本身便能承载一切,如同柱子上的横枝支撑其余部分。由此而上升;否则便堕落。那在吠陀中被自己的法所压服、不违背自己的法而成为住于各阶段的人,被称为住于各阶段的苦行者。也曾说过:没有苦行的人,在自我禅定中无所成就,行为也无法清净;正是这样说。以苦行获得存在的清净;由存在的清净完全获得心;由心获得自我;得到自我的人便不再返回。
Maitrāyaṇī 4.4
अत्रैते श्लोका भवन्ति ॥ यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति । तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ १ ॥
स्वयोनावुपशान्तस्य मनसः सत्यगामिनः । इन्द्रियार्थाविमूढस्यानृताः कर्मवशानुगाः ॥ २ ॥
चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३ ॥
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमव्ययमश्नुते ॥ ४ ॥
समासक्तं यदा चित्तं जन्तोर्विषयगोचरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ ५ ॥
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसण्कल्पं शुद्धं कामविवर्जितम् ॥ ६ ॥
लयविक्षेपरहितं मनः कृत्वा सुनिश्चलम् । यदा यात्यमनीभावं तदा तत्परमं पदम् ॥ ७ ॥
तावदेव निरोद्धव्यं हृदि यावत्क्षयं गतम् । एतज्ज्ञानं च मोक्षं च शेषास्तु ग्रन्थविस्तराः ॥ ८ ॥
समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं लभेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥ ९ ॥
अपामपोऽग्निरग्नौ वा व्योम्नि व्योम न लक्षयेत् । एवमन्तर्गतं चित्तं पुरुषः प्रतिमुच्यते ॥ १० ॥
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतमिति ॥ ११ ॥
अथ यथेयं कौत्सायनिस्तुतिः ॥ त्वं ब्रह्मा त्वं च वै विष्णुस्त्वं रुद्रस्त्वं प्रजापतिः । त्वमग्निर्वरुणो वायुस्त्वमिन्द्रस्त्वं निशाकरः ॥ १२ ॥
त्वं मनुस्त्वं यमश्च त्वं पृथिवी त्वमथाच्युतः । स्वार्थे स्वाभाविकेऽर्थे च बहुधा तिष्ठसे दिवि ॥ १३ ॥
विश्वेश्वर नमस्तुभ्यं विश्वात्मा विश्वकर्मकृत् । विश्वभुग्विश्वमायस्त्वं विश्वक्रीडारतिः प्रभुः ॥ १४ ॥
नमः शान्तात्मने तुभ्यं नमो गुह्यतमाय च । अचिन्त्यायाप्रमेयाय अनादिनिधनाय चेति ॥ १५ ॥ ॥ ४.४ ॥
以下是这些颂文:如同无薪之火在其本源中熄灭,心念止息时,心也在其本源中寂静。(1) 对于在其本源中寂静、趋向真理、不为感官对象所迷惑的心,虚妄的念头便不再随业力而行。(2) 心本身即是轮回,因此应当以努力净化它。心成为什么样,人便成为什么样;这是秘密而永恒的。(3) 凭借心的澄净,善恶之业得以消除;澄净的自我安住于自我之中,便获得不坏的喜乐。(4) 当众生之心深深执着于感官对象之域,若这同一颗心安住于梵,谁能不从束缚中解脱?(5) 心被说为两类:纯净与不净。不净的心充满欲望与意图;纯净的心远离欲望。(6) 当心远离昏沉与散乱,被完全稳定下来,达到无心的境界,那便是至高的境地。(7) 应当在心中加以抑制,直到它归于消灭;这就是智慧与解脱,其余都是典籍的繁衍。(8) 心经三昧洗去垢染,安住于自我时所得的喜乐,无法用言语描述;它只能由内在的器官自身领会。(9) 如水入水、火入火、空入空,不可分辨;人在心内融入时,便得解脱。(10) 心是人类束缚与解脱的唯一原因;执着于对象之心导致束缚,远离对象之心被认为通向解脱。(11) 现在这是憍萨衍尼的赞歌:你是梵天,你也是毗湿奴,你是楼陀罗,你是生主;你是火神、伐楼那、风神,你是因陀罗,你是月亮。(12) 你是摩奴,你是阎摩,你是大地,你是不坏者;为了你自己的目的,并在你本然的状态中,你多方安住于天界。(13) 宇宙之主,向你致敬;宇宙之我,宇宙之作者,宇宙之享受者,宇宙之幻化者,喜乐于宇宙游戏的主宰,向你致敬。(14) 向寂静的自我致敬,向最为秘密者致敬;向不可思议、不可量度、无始无终者致敬。(15)
Maitrāyaṇī 4.5
तमो वा इदमेकमास तत्पश्चात्परेणेरितं विषयत्वं प्रयात्येतद्वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं प्रयात्येतद्वै तमसो रूपं तत्तमः खल्वीरितं तमसः सम्प्रास्रवत्येतद्वै सत्त्वस्य रूपं तत्सत्त्वमेवेरितं तत्सत्त्वात्संप्रास्रवत्सोंऽशोऽयं यश्चेतनमात्रः प्रतिपुरुषं क्षेत्रज्ञः सण्कल्पाध्यवसायाभिमानलिण्गः प्रजापतिस्तस्य प्रोक्ता अग्र्यास्तनवो ब्रह्मा रुद्रो विष्णुरित्यथ यो ह खलु वावास्य राजसोंऽशोऽसौ स योऽयं ब्रह्माथ यो ह खलु वावास्य तामसोंऽशोऽसौ स योऽयं रुद्रोऽथ यो ह खलु वावास्य सात्विकोंऽशोऽसौ स एवं विष्णुः स वा एष एकस्त्रिधाभूतोऽष्टधैकादशधा द्वादशधापरिमितधा चोद्भूत उद्भूतत्वाद्भूतेषु चरति प्रतिष्ठा सर्वभूतानामधिपतिर्बभूवेत्यसावात्मान्तर्बहिश्चान्तर्बहिस् ह्च ॥ ४.५ ॥
起初只有暗性(tamas)。随后,由至上者推动,它成为可被感知之物;这便是变性(rajas)的形态。变性被推动,便陷入不平等;这便是暗性的形态。暗性被推动,便流溢而出;这便是善性(sattva)的形态。善性被推动,也流溢而出。这一部分,在每个人身中只是纯粹的觉知,即知场者,是由意图、决断与我慢所标示的生主(Prajāpati)。其最上的形态被称为梵天、楼陀罗与毗湿奴。其变性部分是这梵天;其暗性部分是这楼陀罗;其善性部分便是毗湿奴。那唯一者化为三重,以八种、十一种、十二种方式显现,并以无量方式显现。显现之后,它在众生之中运行,成为一切众生的依托与主宰。这个我(ātman)在内、在外,也在内外之中。