奥义书 · Aitareya 2.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Aitareya 2.1.1
पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः । तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवऽऽत्मानं बिभर्ति तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति तदस्य प्रथमं जन्म ॥ २.१.१ ॥
在男子身上,这从一开始便成为胚胎:此即精液(retas)。此精力聚集自诸肢体,于自身之中承载着自我(ātman);待他将其注入女子之中,便产生了它——这便是他的第一次出生。
Aitareya 2.1.2
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति । साऽस्यैतमात्मानमत्र गतं भावयति ॥ २.१.२ ॥
因此,她如同自己的肢体一般成为他的自我(ātman)。因此他不伤害她。她滋养着他那已来到此处的自我(ātman)。
Aitareya 2.1.3
सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भ बिभर्ति । सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावयति । स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या । एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥ २.१.३ ॥
她既是滋养者,也成为被滋养者。那位女子怀有胚胎。出生之前,他便滋养孩子。出生之后,他滋养孩子,实际上是通过这些世界的延续,滋养他自己的自我(ātman)。如此,这些世界连续不断;这便是他的第二次出生。
Aitareya 2.1.4
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । अथास्यायामितर आत्मा कृतकृत्यो वयोगतः प्रैति । स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥ २.१.४ ॥
他的这个自我(ātman)被安置于功德之业中。随后,他的另一个自我(ātman)完成了应做之事,达到老年,便离去。从此处离去时,他立即再次出生;这便是他的第三次出生。
Aitareya 2.1.5
तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा शतं मा पुर आयसीररक्षन्नधः श्येनो जवसा निरदीयमिति । गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ २.१.५ ॥
这位仙人说道:“我在胎中时,便知晓了这些神祇的一切生处;一百座铁城曾把守着我,随后我像鹰一样迅疾地从下方飞出。”胎中卧着的瓦摩提婆如此说道。
Aitareya 2.1.6
स एवं विद्वानस्माच्छरीरभेदादूर्ध्व उत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतः समभवत् समभवत् ॥ २.१.६ ॥
知道这样的人,在此身体坏灭后向上升起,在那天界之中获得一切愿望,便成为不死者,确实成为了不死者。