Vedyatra वेदयात्रा
搜索

奥义书 · Bṛhadāraṇyaka 2.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Bṛhadāraṇyaka 2.5.1

(मधुब्राह्मणम्)
इयं पृथिवी सर्वेषां भूतानां मधु ।
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.१ ॥

(蜜婆罗门)这大地是一切众生的蜜,一切众生也是这大地的蜜。那存在于这大地中的光明、不死的人,以及内在于身体中的光明、不死的人,正是此自我(ātman)。这即是不死,这即是梵,这即是一切。

Bṛhadāraṇyaka 2.5.2

इमा आपः सर्वेषां भूतानां मधु ।
आसामपां सर्वाणि भूतानि मधु ।
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.२ ॥

这些水是一切众生的蜜,一切众生也是这些水的蜜。那存在于这些水中的光明、不死的人,以及内在于自我中的精液的光明、不死的人,正是此自我(ātman)。这即是不死,这即是梵,这即是一切。

Bṛhadāraṇyaka 2.5.3

अयमग्निः सर्वेषां भूतानां मधु ।
अस्याग्नेः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.३ ॥

这火是一切众生的蜜,一切众生也是这火的蜜。那存在于这火中的光明、不死的人,以及内在于自我中由言语构成的光明、不死的人,正是此自我(ātman)。这即是不死,这即是梵,这即是一切。

Bṛhadāraṇyaka 2.5.4

अयं वायुः सर्वेषां भूतानां मधु ।
अस्य वायोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा ।
इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.४ ॥

此风是一切众生之蜜,一切众生是此风之蜜。在此风中的光明而不朽的补鲁莎,以及在内在作为气息(prāṇa)的光明而不朽的补鲁莎,正是此我(ātman)。此即不朽,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.5

अयमादित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.५ ॥

此日是一切众生之蜜,一切众生是此日之蜜。在此日中的光明而不朽的补鲁莎,以及在内在作为眼睛的光明而不朽的补鲁莎,正是此我(ātman)。此即不朽,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.6

इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.६ ॥

此诸方是一切众生之蜜,一切众生是此诸方之蜜。在此诸方中的光明而不朽的补鲁莎,以及在内在作为听觉、回响的光明而不朽的补鲁莎,正是此我(ātman)。此即不朽,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.7

अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् ।
इदं ब्रह्मेदं सर्वम् ॥ २.५.७ ॥

此月是一切众生之蜜,一切众生是此月之蜜。在此月中的光明而不朽的补鲁莎,以及在内在作为心意的光明而不朽的补鲁莎,正是此我(ātman);此即不朽。此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.8

इयं विद्युत्सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.८ ॥

此闪电是一切众生的蜜,一切众生也是此闪电的蜜。在此闪电中由光明与不死构成的补卢沙,以及内在的光明、由光明与不死构成的补卢沙,正是此我(ātman)。此即不死,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.9

अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.९ ॥

此雷鸣是一切众生的蜜,一切众生也是此雷鸣的蜜。在此雷鸣中由光明与不死构成的补卢沙,以及内在的、属于声音与天界轰鸣、光明、由不死构成的补卢沙,正是此我(ātman)。此即不死,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.10

अयमाकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.१० ॥

此虚空是一切众生的蜜,一切众生也是此虚空的蜜。在此虚空中由光明与不死构成的补卢沙,以及内在的心中虚空、光明、由不死构成的补卢沙,正是此我(ātman)。此即不死,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.11

अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.११ ॥

此法(dharma)是一切众生的蜜,一切众生也是此法的蜜。在此法中由光明与不死构成的补卢沙,以及内在的法之补卢沙、光明、由不死构成的,正是此我(ātman)。此即不死,此即梵(brahman),此即一切。

Bṛhadāraṇyaka 2.5.12

इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.१२ ॥

此真理是一切众生的蜜,一切众生也是此真理的蜜。存在于此真理中的光明、不死之补卡夏,以及内在于自我之中的真理的光明、不死之补卡夏,正是这个自我(ātman)。这就是不死,这就是梵(brahman),这就是一切。

Bṛhadāraṇyaka 2.5.13

इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.१३ ॥

此人类是一切众生的蜜,一切众生也是此人类的蜜。存在于此人之中的光明、不死之补卡夏,以及内在于自我之中的人的光明、不死之补卡夏,正是这个自我(ātman)。这就是不死,这就是梵(brahman),这就是一切。

Bṛhadāraṇyaka 2.5.14

अयमात्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ २.५.१४ ॥

此自我是一切众生的蜜,一切众生也是此自我的蜜。存在于此自我中的光明、不死之补卡夏,以及光明、不死的此自我,正是这个自我(ātman)。这就是不死,这就是梵(brahman),这就是一切。

Bṛhadāraṇyaka 2.5.15

स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ २.५.१५ ॥

此自我本身就是一切的主宰,一切众生的君王。正如车轮的所有辐条都固定在轮毂和轮辋上,在此自我之中,也固定着一切众生、一切天神、一切世界、一切气息,以及这一切自我。

Bṛhadāraṇyaka 2.5.16

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ २.५.१६ ॥

这就是达陀延遮·阿atharvan向双Aśvin所说的蜜智。见道者观之而宣说:诸位男子,我显示你们的强大之业,如雷显示雨。这就是达陀延遮·阿atharvan以马首告诉你们的蜜。

Bṛhadāraṇyaka 2.5.17

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ २.५.१७ ॥

这就是达陀延遮·阿atharvan向双Aśvin所说的蜜智。见道者宣说:为阿atharvan之子达陀奇,双Aśvin啊,你们重新接上了马头。他为求真理,向你们说出那蜜,即特瓦什特里的蜜,诸Dasra啊,它就在你们的腋下。

Bṛhadāraṇyaka 2.5.18

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
नैनेन किं चनानावृतम् ।
नैनेन किं चनासंवृतम् ॥ २.५.१८ ॥

这就是达陀延遮·阿atharvan向双Aśvin所说的蜜智。见道者宣说:他先造了两足者,先造了四足者。化为鸟而先入,化为补鲁莎而先入。此补鲁莎居于一切城(身体)之中,如城中居民。无物对他不显,无物对他不藏。

Bṛhadāraṇyaka 2.5.19

इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति ।
अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ।
अयमात्मा ब्रह्म सर्वानुभूः ।
इत्यनुशासनम् ॥ २.५.१९ ॥

这就是达陀延遮·阿atharvan向双Aśvin所说的蜜智。见道者宣说:于每一形相中,他化为相应之形,此显示其形。因陀罗以其幻力行于多种形相,其骏马,一百一十匹,被驾驭。这些是马;是十与千,是众多与无尽。此梵无先无后,无内无外。此我即梵,遍经验一切者。此即教诲。