奥义书 · Bṛhadāraṇyaka 3.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Bṛhadāraṇyaka 3.8.1
(वाचक्नवीब्राह्मणं, अक्षरब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम्)
अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि ।
तौ चेन्मे विवक्ष्यति ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
पृच्छ गार्गीति ॥ ३.८.१ ॥
于是婆卡那维说:诸位尊敬的婆罗门,好吧,我要向此人提出两个问题。若他能回答我,你们中无人能在这场梵之辩论中胜过我。(对耶若婆佉说:)问吧,伽尔吉。
Bṛhadāraṇyaka 3.8.2
सा होवाच अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
तौ मे ब्रूहीति ।
पृच्छ गार्गीति ॥ ३.८.२ ॥
她说:耶若婆佉啊,犹如迦尸或毗提诃之人,乃乌格罗族的勇士,弓弦上弦,手持两支能射穿敌人的箭而站立,我也以两个问题站在你面前。请回答它们。(耶若婆佉:)问吧,伽尔吉。
Bṛhadāraṇyaka 3.8.3
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३.८.३ ॥
她说:耶若婆佉啊,天之上、地之下、天地之间,以及被称为过去、现在、未来的一切,它们织在何物之中、交织于何物之中?
Bṛhadāraṇyaka 3.8.4
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ ३.८.४ ॥
他说:伽尔吉啊,天之上、地之下、天地之间,以及被称为过去、现在、未来的一切,都织在虚空(ākāśa)之中。
Bṛhadāraṇyaka 3.8.5
सा होवच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ ३.८.५ ॥
她说:耶若伏底迦,向你致敬。你向我所宣说的,请为他人保持。迦吉,请发问。
Bṛhadāraṇyaka 3.8.6
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ ३.८.६ ॥
她说:耶若伏底迦,那在天上的、在地下的、在天地之间的,这些世界,以及所谓过去、现在、未来的一切——它在什么之中纵横交织?
Bṛhadāraṇyaka 3.8.7
स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति ।
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ ३.८.७ ॥
他说:迦吉,那在天上的、在地下的、在天地之间的,这些世界,以及所谓过去、现在、未来的一切,人们说它们纵横交织于虚空之中。那么,虚空又纵横交织于什么之中呢?
Bṛhadāraṇyaka 3.8.8
स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमगात्रमनन्तरमबाह्यम् ।
न तदश्नाति किं चन ।
न तदश्नाति कश्चन ॥ ३.८.८ ॥
他说:迦吉,婆罗门们这样描述这不灭者(akṣara):不粗,不细,不短,不长,不红,不油腻,无影,无暗,无风,无空,无执著,无味,无香,无眼,无耳,无言,无意,无火,无息,无口,无身,无内,无外。它不食任何东西,也无人食它。
Bṛhadāraṇyaka 3.8.9
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति ।
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु ।
एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ ३.८.९ ॥
嗟乎迦吉,在此不灭者(akṣara)的主宰之下,日与月被分别持守而立。在此不灭者的主宰之下,迦吉啊,天与地被分别持守而立。在此不灭者的主宰之下,迦吉啊,刹那、时辰、昼夜、半月、月、季节、年岁,如此被持守而立。在此不灭者的主宰之下,迦吉啊,东方从白色山脉流出其他河流,西方亦然,各顺其方向。在此不灭者的主宰之下,迦吉啊,人们赞颂施祭者,诸神赞颂勺,祖先依赖于此。
Bṛhadāraṇyaka 3.8.10
वा अक्षरस्य्
यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति
यो वा एतदक्षरमविदित्वा गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।
अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ ३.८.१० ॥
迦吉啊,凡是不知此不灭者而在此世行火祭、祭祀、修苦行,并且如此修行数千年者,其果报必是有限的。迦吉啊,凡是不知此不灭者而离开此世者,是可怜的。然而迦吉啊,凡是知此不灭者而离开此世者,便是婆罗门。
Bṛhadāraṇyaka 3.8.11
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ।
नान्यदतोऽस्ति द्रष्टृ ।
नान्यदतोऽस्ति श्रोतृ ।
नान्यदतोऽस्ति मन्तृ ।
नान्यदतोऽस्ति विज्ञातृ ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥ ३.८.११ ॥
迦吉啊,此不灭者虽不可见却是见者,虽不可闻却是闻者,虽不可思却是思者,虽不可知却是知者。除此之外,没有别的见者,没有别的闻者,没有别的思者,没有别的知者。迦吉啊,在此不灭者之中,虚空如经纬交织而贯通。
Bṛhadāraṇyaka 3.8.12
सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
ततो ह वाचक्नव्युपरराम ॥ ३.८.१२ ॥
她说:尊贵的婆罗门们,你们只要以此为满足,凭这一礼拜便可脱离我的追问。因为你们中间永远没有人能在这个关于梵的问题上胜过我。于是婆ckna维(迦吉)便沉默了。