奥义书 · Chāndogya 4.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 4.3.1
वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ ४.३.१ ॥
风确实是收摄者(saṃvarga)。当火焰升腾时,它便归入风中。当太阳落下时,它便归入风中。当月亮落下时,它便归入风中。
Chāndogya 4.3.2
यदाप उच्छुष्यन्ति वायुमेवापियन्ति वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४.३.२ ॥
当水干涸时,它们便归入风中,因为风确实将这一切收摄。这是关于神性层面(adhidaivata)的说明。
Chāndogya 4.3.3
अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणꣳ श्रोत्रं प्राणं मनः प्राणो ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४.३.३ ॥
现在就内在而言,气息(prāṇa)确实是收摄者。人入睡时,言语融入气息,眼睛融入气息,耳朵融入气息,意念融入气息。唯有气息将这些全部收摄起来。
Chāndogya 4.3.4
तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणः प्राणेषु ॥ ४.३.४ ॥
这两者确实是两种收摄者:在诸神中是风(vāyu),在诸气中是气息(prāṇa)。
Chāndogya 4.3.5
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः ॥ ४.३.५ ॥
那时,一位梵行学童在向首那卡、迦毗耶、阿毗普拉塔林和迦叉塞尼乞食,他们正被奉上饭食;但他们什么也没给他。
Chāndogya 4.3.6
स होवाच महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं दत्तमिति ॥ ४.३.६ ॥
他说:“大我有四,而神只有一位。那位作为世界守护者而吞食它的,是谁?迦毗耶啊,阿毗普拉塔林啊,凡人看不见他,他以多种方式安住。(被给予此食之人能看见他。)”
Chāndogya 4.3.7
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां जनिता प्रजानाꣳ हिरण्यदꣳष्ट्रो बभसोऽनसूरिर्महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४.३.७ ॥
于是,Śaunaka Kāpeya 思索后答道:那生诸神、造众生的阿特曼,有金色的牙齿,是吞食者,没有嫉妒;人们说它有大的荣耀。它不被食用,却吃那非食物之物。梵行者啊,我们崇敬的正是此物。请给他施食。
Chāndogya 4.3.8
तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतꣳ सैषा विराडन्नादी तयेदꣳ सर्वं दृष्टꣳ सर्वमस्येदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४.३.८ ॥
他们把它给了他。这些确实是五个,再五个,成为十个,由它们所造;因此在所有方向上,唯有食物被造为十重。她是 Virāj,食物的享用者;通过她,这一切被看见,对他而言,这一切成为可见。如此知道的人成为食物的享用者;如此知道的人。