Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.7.1

य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ ८.७.१ ॥

那无恶、无老、无死、无忧、无饥、无渴、欲真、志真的我(ātman),必须去寻求,必须愿意去了知。寻求此我并彻底了知它的人,得到一切世界与一切欲望。生主(Prajāpati)如是说。

Chāndogya 8.7.2

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्वेच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानितीन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८.७.२ ॥

于是诸神与阿修罗都得知了此事。他们说:“来吧,让我们去寻找那个ātman,找到它便能获得一切世界和一切欲望。”因陀罗去见诸神,毗卢遮那去见阿修罗。二人未能达成一致,手持柴薪来到生主(Prajāpati)面前。

Chāndogya 8.7.3

तौ ह द्वात्रिꣳशतं वर्षाणि ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्तावास्तमिति । तौ होचतुर्य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ८.७.३ ॥

二人在梵行中生活了三十二年。生主(Prajāpati)问他们:“你们这样生活,是想要什么?”他们回答:“那个ātman,无罪、无老、无死、无忧、超越饥渴,愿望真实、决断真实,应当去寻求,去真正地了知。谁找到并学会了它、知道了它,就能获得一切世界和一切欲望。”他们转述尊者的话;正是渴望这个,他们才生活着。

Chāndogya 8.7.4

तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येष उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ८.७.४ ॥

于是生主对他们说:“那在眼中所见的人,便是ātman。”他们说:“这是不死的、无畏的;这便是梵(brahman)。”接着,尊者啊,那在水中所见的映像,以及在镜中所见的,是什么?正是这同一者,在所有这些地方被映现。