Vedyatra वेदयात्रा
搜索

奥义书 · Maitrāyaṇī 1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Maitrāyaṇī 1.1

ॐ बृहद्रथो ह वै नाम राजा राज्ये ज्येष्ठं पुत्रं निधापयित्वेदमशाश्वतं मन्यमानः शारीरं वैराग्यमुपेतोऽरण्यं निर्जगाम स तत्र परमं तप आस्थायादित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनिरन्तिकमाजगामाग्निरिवाधूमकस्तेजसा निर्दहन्निवात्मविद्भगवाञ्च्हाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति राजानमब्रवीत्स तस्मै नमस्कृत्योवाच भगवन्नाहमात्मवित्त्वं तत्त्वविच्च्हृणुमो वयं स त्वं नो ब्रूहीत्येतद्वृतं पुरस्तादशक्यं मा पृच्च्ह प्रश्नमैक्ष्वाकान्यान्कामान्वृणीश्वेति शाकायन्यस्य चरणवभिमृश्यमानो राजेमां गाथां जगाद ॥ १.१ ॥

唵。国王 Bṛhadratha 将王位交给长子,认为此世无常,对身体生起离欲之心,遂入林中。他在那里修习至高的苦行,双臂高举,凝视太阳。满一千年之末,知自我(ātman)的仙人 Śākāyanya 来到他身边,如无烟之火般放射光明。他对国王说:“起来,起来,请选择一个恩惠。”国王向他行礼说:“尊者,我并非知自我者;您才是知真理者。我们想听,请您告诉我们。”(Śākāyanya 说:“此愿先前便不可能实现;不要发问;请选择适合伊克什瓦库后裔的其他愿望。”)国王抚触 Śākāyanya 的双足,诵出此颂。

Maitrāyaṇī 1.2

भगवन्नस्थिचर्मस्नायुमज्जामांसशुक्रशोणितश्लेष्माश्रुदू षिते विण्मूत्रवातपित्तकफसङ्घाते दुर्गन्धे निःसारेऽस्मिञ्च्हरीरे किं कामोपभोगैः ॥ १.२ ॥

尊者,在此身体中——它被骨、皮、筋、髓、肉、精液、血、痰与泪所污染,是粪、尿、风、胆汁与痰的聚合,恶臭而无实质——享受欲望又有何用?

Maitrāyaṇī 1.3

कामक्रोधलोभभयविषादेर्ष्येष्टवियोगानिष्टसंप्रयोगक्षु त्पिपासाजरामृत्युरोगशोकाद्यैरभिहतेऽस्मिञ्च्हरीरे किं कामोपभोगैः ॥ १.३ ॥

在此身体中——它遭受欲望、愤怒、贪婪、恐惧、沮丧、嫉妒、与所爱者的分离、与所不喜者的相会、饥、渴、衰老、死亡、疾病、悲伤等诸苦所侵害——享受欲望又有何用?

Maitrāyaṇī 1.4

सर्वं चेदं क्षयिष्णु पश्यामो यथेमे दंशमशकादयस्तृणवन्नश्यतयोद्भूतप्रध्वंसिनः ॥ १.४ ॥

我们看到,这一切都会坏灭,正如这些蚊虫、牛虻等生起之后,如草一般消亡。

Maitrāyaṇī 1.5

अथ किमेतैर्वा परेऽन्ये महाधनुर्धराश्चक्रवर्तिनः केचित्सुद्युम्नभूरिद्युम्नेन्द्रद्युम्नकुवलयाश्वयौवनाश्ववद्धिया श्वाश्वपतिः शशबिन्दुर्हारिश्चन्द्रोऽम्बरीषो ननूक्तस्वयातिर्ययातिनरण्योक्षसेनोत्थमरुत्तभरतप्रभृतयो राजानो मिषतो बन्धुवर्गस्य महतीं श्रियं त्यक्त्वास्माल्लोकादमुं लोकं प्रयान्ति ॥ १.५ ॥

那么,这些人,或其他手持大弓的转轮王,又有何用?须大王、遍光王、因陀罗光王、俱缚罗摩王、青年马王、持弓马王、马主王、兔点王、哈利斯昌德罗、安巴利沙,名为自生的耶耶提,那罗尼亚、阿克沙塞那、末卢达,以及跋罗多等诸王,在亲族注视之下,舍弃巨大的富贵,从此世走向彼世。

Maitrāyaṇī 1.6

अथ किमेतैर्वा परेऽन्ये गन्धर्वासुरयक्षराक्षसभूतगणपिशाचोरगग्रहादीनां निरोधनं पश्यामः ॥ १.६ ॥

那么,这些人或其他人又有何用?我们看到乾闼婆、阿修罗、夜叉、罗刹、鬼众、毕舍遮、蛇类、星神等都被制伏。

Maitrāyaṇī 1.7

अथ किमेतैर्वान्यानां शोषणं महार्णवानां शिखरिणां प्रपतनं ध्रुवस्य प्रचलनं स्थानं वा तरूणां निमज्जनं पृथिव्याः स्थानादपसरणं सुराणं सोऽहमित्येतद्विधेऽस्मिन्संसारे किं कामोपभोगैर्यैरेवाश्रितस्यासकृदिहावर्तनं दृश्यत इत्युद्धर्तुमर्हसीत्यन्धोदपानस्थो भेक इवाहमस्मिन्संसारे भगवंस्त्वं नो गतिस्त्वं नो गतिः ॥ १.७ ॥

那么,这些人或其他人又有何用?我们看到大海干涸,山峰倾倒,北极星移动或改变位置,树木沉没,大地离开原处,诸天神坠落。在这轮回之中,那执着于欲乐、说“我即是彼”的人,在此不断地被旋转,那些欲乐又有何用?您有能力把我拯救出来。在这轮回之中,我就像井底的青蛙。尊者啊,您是我们的归依;您是我们的归依。