奥义书 · Chāndogya 1.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 1.11.1
अथ हैनं यजमान उवाच भगवन्तं वा अहं विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच ॥ १.११.१ ॥
于是施主对他说:"尊者,我想要知道。"他说:"我是 Cakra 之子 Uṣasti。"
Chāndogya 1.11.2
स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १.११.२ ॥
他说:"尊者,对于所有这些祭司职务,我都寻找过;但因不认识您,我便选择了其他人。"
Chāndogya 1.11.3
भगवाꣳ स्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ तर्ह्येत एव समतिसृष्टाः स्तुवतां यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच ॥ १.११.३ ॥
尊敬的大人,愿所有祭司之职都如此为我而行。那么,你赐给赞歌者多少财富,也请赐给我同样多。施祭者说:「就这样吧。」
Chāndogya 1.11.4
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.४ ॥
于是唱赞者(prastotṛ)走近他说:「唱赞者啊,依赖于 prastāva 的那位神,如果你不知道而唱,你的头就会掉下来。」尊者问我:「那位神是谁?」
Chāndogya 1.11.5
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.५ ॥
他说:「是气息(prāṇa)。确实,这些众生都只进入气息,也从气息中升起。这就是依赖于 prastāva 的那位神。若你不知而唱,你的头就会如我所说掉下来。」
Chāndogya 1.11.6
अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.६ ॥
于是歌唱者(udgātṛ)走近他说:「歌唱者啊,依赖于 udgītha 的那位神,如果你不知道而唱,你的头就会掉下来。」尊者问我:「那位神是谁?」
Chāndogya 1.11.7
आदित्य इति होवाच सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १.११.७ ॥
他说:'太阳。' 这些众生都高声歌颂太阳。此神依赖于乌德吉陀。若你不知而唱乌德吉陀,你的头会碎裂。正如我所说。
Chāndogya 1.11.8
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति ॥ १.११.८ ॥
于是一位普拉提哈尔塔来到他面前说:'啊,普拉提哈尔塔!若你不知所依赖的神而唱普拉提哈罗,你的头会碎裂。' 尊者对我说:'那是哪位神?'
Chāndogya 1.11.9
अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ १.११.९ ॥
他说:'食物。' 这些众生唯靠取回食物而生存。此神依赖于普拉提哈罗。若你不知而取回,你的头会碎裂。正如我所说。正如我所说。