奥义书 · Chāndogya 1.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 1.7.1
अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते वागेव सा प्राणोऽमस्तत्साम ॥ १.७.१ ॥
现在论内在层面(adhyātman):言语即是诗节(ṛc),气息(prāṇa)即是歌咏(sāman)。此歌咏建立于那诗节之上;因此,建立于诗节之上的歌咏被唱出。言语正是那诗节;气息是「阿马」之音;那便是歌咏。
Chāndogya 1.7.2
चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते चक्षुरेव सात्मामस्तत्साम ॥ १.७.२ ॥
眼睛即是诗节(ṛc),自我(ātman)即是歌咏(sāman)。此歌咏建立于那诗节之上;因此,建立于诗节之上的歌咏被唱出。眼睛正是那诗节;自我是「阿马」之音;那便是歌咏。
Chāndogya 1.7.3
श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते श्रोत्रमेव सा मनोऽमस्तत्साम ॥ १.७.३ ॥
听觉即是ṛk(颂),意即是sāman(歌)。此sāman安置于此ṛk之上。因此安置于ṛk之上的sāman被咏唱。听觉即是那,意即是'am';那便是sāman。
Chāndogya 1.7.4
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढꣳ साम तस्मादृच्यध्यूढꣳ साम गीयते अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः कृष्णं तदमस्तत्साम ॥ १.७.४ ॥
现在,眼睛的白色光辉即是ṛk(颂)。而深蓝色及其外的黑色即是sāman(歌)。此sāman安置于此ṛk之上。因此安置于ṛk之上的sāman被咏唱。现在,眼睛的白色光辉即是那,即是ṛk。深蓝与外层的黑是'am';那便是sāman。
Chāndogya 1.7.5
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं यावमुष्य गेष्णौ तौ गेष्णौ यन्नाम तन्नाम ॥ १.७.५ ॥
现在,眼中所见之人即是ṛk;他即是sāman、uktha、yajus与brahman。他的形貌即是此形貌,此之形貌即是彼之形貌。二者即是geṣṇau;什么是名,便是名。
Chāndogya 1.7.6
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयः ॥ १.७.६ ॥
他即是此者。他主宰此之下的诸世界,以及人的欲望。因此,在琵琶上歌唱的人,唱的正是他;所以他们是追求财富与利益的人。
Chāndogya 1.7.7
अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताꣳ श्चाप्नोति देवकामास्ताꣳ श्च ॥ १.७.७ ॥
知此而歌唱娑摩的人,两者皆歌唱;以此,他便获得彼岸的遥远世界,以及渴求诸神者的世界,并且得到它们。
Chāndogya 1.7.8
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताꣳ श्चाप्नोति मनुष्यकामाꣳश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १.७.८ ॥
以此,他也获得较近于此的世界,以及渴求人间乐趣者的世界。因此,知此的优德伽陀应当说:
Chāndogya 1.7.9
कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य एवं विद्वान्साम गायति साम गायति ॥ १.७.९ ॥
"我为你歌唱何种愿望?"(优德伽陀应当这样问)。唯有知此而歌唱娑摩的人,歌唱娑摩,才能获得歌唱所求之愿的果报。