Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 1.8

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 1.8.1

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १.८.१ ॥

三人精通优德伽陀(udgītha):Śilaka Śālāvatya、Aikitāyana Dālbhya、Pravāhaṇa Jaivali。他们说:「我们精通优德伽陀;来吧,让我们谈谈优德伽陀。」

Chāndogya 1.8.2

तथेति ह समुपविविशुः स ह प्रवाहणो जैवलिरुवाच भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचꣳ श्रोष्यामीति ॥ १.८.२ ॥

“好吧。”二人一同坐下。济婆利之子普拉瓦哈纳说:“尊贵的二位婆罗门,请你们先说,我将聆听你们的言语。”

Chāndogya 1.8.3

स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति पृच्छेति होवाच ॥ १.८.३ ॥

舍罗婆多之子尸罗迦对艾基多衍那·达尔毗耶说:“来吧,我要问你。”达尔毗耶说:“问吧。”

Chāndogya 1.8.4

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप इति होवाच ॥ १.८.४ ॥

“萨摩(sāman)的根基是什么?”他说:“是音调(svara)。”“音调的根基是什么?”他说:“是气息(prāṇa)。”“气息的根基是什么?”他说:“是食物。”“食物的根基是什么?”他说:“是水。”

Chāndogya 1.8.5

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य का गतिरिति न स्वर्गं लोकमति नयेदिति होवाच स्वर्गं वयं लोकꣳ सामाभिसंस्थापयामः स्वर्गसꣳस्तावꣳ हि सामेति ॥ १.८.५ ॥

“水的根基是什么?”他说:“是那个世界。”“那个世界的根基是什么?”他说:“它不应超越天界。”“我们借萨摩(sāman)来确立天界,因为萨摩是引向天界的赞歌。”

Chāndogya 1.8.6

तꣳ ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ १.८.६ ॥

Śilaka Śālāvatya对Aikitāyana Dālbhya说:“Dālbhya,你的sāman确实没有根基。如果现在有人说‘你的头将会掉落’,你的头就会掉落。”

Chāndogya 1.8.7

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच प्रतिष्ठां वयं लोकꣳ सामाभिसꣳस्थापयामः प्रतिष्ठासꣳ स्तावꣳ हि सामेति ॥ १.८.७ ॥

Dālbhya说:“好吧,请知道我将从尊者那里学到这个。”他问:“这个世界的去路是什么?”回答:“这个世界。”他又问:“这个世界的去路是什么?”回答:“它不是根基。不应如此。为了根基,我们以sāman稳固世界,因为sāman确实是根基、赞颂。”

Chāndogya 1.8.8

तꣳ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते शालावत्य साम यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ॥ १.८.८ ॥

Pravāhaṇa Jaivali对他说:“Śālāvatya,你的sāman确实有限。如果现在有人说‘你的头将会掉落’,你的头就会掉落。好吧,请知道我将从尊者那里学到这个。”他这样说。