奥义书 · Chāndogya 3.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 3.13.1
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ ३.१३.१ ॥
此心有五个神圣的孔窍(deva-suṣi)。其中东向的孔窍是气息(prāṇa);它就是眼睛;它就是太阳(āditya)。应当将其作为光明(tejas)与食物来观想;如此知晓之人便成为光辉而享用食物的人。
Chāndogya 3.13.2
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रꣳस चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ ३.१३.२ ॥
再者,此心的南向孔窍是遍行气(vyāna);它就是听觉;它就是月亮。应当将其作为吉祥(śrī)与名声(yaśas)来观想;如此知晓之人便成为吉祥而有名望的人。
Chāndogya 3.13.3
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३.१३.३ ॥
此人的西向孔道即是下行气(apāna),即是言语,即是火。应当把它作为梵的光辉与食物之源来观想。如此知晓者,便成为具有梵之光辉并享有食物的人。
Chāndogya 3.13.4
अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३.१३.४ ॥
此人的北向孔道即是平行气(samāna),即是心,即是雨云。应当把它作为名声与兴盛来观想。如此知晓者,便成为有名声并且兴旺的人。
Chāndogya 3.13.5
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान्भवति य एवं वेद ॥ ३.१३.५ ॥
此人的上向孔道即是上行气(udāna),即是风,即是虚空。应当把它作为力量与伟大来观想。如此知晓者,便成为有力而光荣的人。
Chāndogya 3.13.6
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य लोकस्य द्वारपान्वेद ॥ ३.१३.६ ॥
这五位梵人(brahma-puruṣa)确实是天界之门的守门人。若有人如此知晓这五位梵人,即天界之门的守门人,他的家族中便会生出勇敢的儿子,他也能抵达天界。凡如此知晓这五位梵人、天界之门守门人者。
Chāndogya 3.13.7
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषो ज्योतिस्तस्यैषा ॥ ३.१३.७ ॥
那超越天界、照耀四方、照于万物之背、照于至上诸界的光明,正是此人之内的光明;这就是它的状态。
Chāndogya 3.13.8
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सꣳस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ३.१३.८ ॥
此为其见:当他在此身中以触觉感知热时,这便是其见。此为其闻:当他掩耳,听到如雷鸣、如烈火燃烧之声时,这便是其闻。应当如“所见所闻”而观想之。如此知者,便为眼所见而有名,如此知者。