Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 3.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 3.17.1

स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ ३.१७.१ ॥

当他想吃、想喝、不快乐时,这些便是他的入教仪式(dīkṣā)。

Chāndogya 3.17.2

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३.१७.२ ॥

其后,当他进食、饮水、享乐时,这便以奉献礼(upasad)完成。

Chāndogya 3.17.3

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३.१७.३ ॥

其后,当他欢笑、戏谑、行房事时,他只以赞歌(stotra)与诵咏(śastra)获得此果。

Chāndogya 3.17.4

अथ यत्तपो दानमार्जवमहिꣳसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ३.१७.४ ॥

其后,苦行、布施、正直、不害与真实语,这些便是他的祭礼布施(dakṣiṇā)。

Chāndogya 3.17.5

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवास्यावभृथः ॥ ३.१७.५ ॥

因此人们说:'他将生子',或'他没有生子'。他再次出生正是他的死亡,而这就是他的阿婆哩陀(祭祀的最后沐浴)。

Chāndogya 3.17.6

तद्धैतद्घोर् आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसꣳशितमसीति तत्रैते द्वे ऋचौ भवतः ॥ ३.१७.६ ॥

高罗·安吉罗娑把这话告诉了提婆基之子黑天,他自己也因此不再有渴望。在临终时,应当依止这三者:'你是不灭的,你是不失的,你被生气磨砺。'关于此有两首颂。

Chāndogya 3.17.7

आदित्प्रत्नस्य रेतसः । उद्वयन्तमसस्परि ज्योतिः पश्यन्त उत्तरꣳस्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३.१७.७ ॥

于是我们抵达了古老的种子——太阳,它升起于黑暗之上。看见黑暗之外的光明,看见更高的天界,我们抵达了太阳,诸神中最高的神。至上之光,至上之光。