Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 4.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 4.1.1

जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयाञ्चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४.१.१ ॥

补特罗耶那之孙阇那什鲁提,是信心施舍者、大施主、多烹饪食物者。他命人从四方各处的住所宣告:众人都只吃我的食物。

Chāndogya 4.1.2

अथ हꣳसा निशायामतिपेतुस्तद्धैवꣳ हꣳसोहꣳ समभ्युवाद हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वा मा प्रधाक्षीरिति ॥ ४.१.२ ॥

那时夜里,天鹅飞过。其中一只天鹅对他这样说:“喂,婆罗克沙,婆罗克沙!补特罗耶那之孙阇那什鲁提的光明如白昼般扩散开来。不要让它触碰我,免得我烧了你。”

Chāndogya 4.1.3

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तꣳसयुग्वानमिव रैक्वमात्थेति यो नु कथꣳ सयुग्वा रैक्व इति ॥ ४.१.३ ॥

那时另一只天鹅回答他说:“卑贱者啊,你为何把此人说成如同有车伴的罗伊克瓦一样?罗伊克瓦是如何有车伴的?”

Chāndogya 4.1.4

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४.१.४ ॥

就像所有输家都围绕着掷骰赢家聚集一样,人们所做的一切善行都归于知晓此理、知晓彼理的人。此事我已经说过。

Chāndogya 4.1.5

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव स ह सञ्जिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति यो नु कथꣳसयुग्वा रैक्व इति ॥ ४.१.५ ॥

于是普特拉之孙阇那什鲁提听到了这些话。他急忙对御者说:“安伽罗,你把罗克伐说成像车上的同行者一样。罗克伐究竟是怎样的同行者?”

Chāndogya 4.1.6

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनꣳसर्वं तदभिसमैति यत्किञ्च प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४.१.६ ॥

就像所有输家都围绕着掷骰赢家聚集一样,人们所做的一切善行都归于知晓此理、知晓彼理的人。此事我已经说过。

Chāndogya 4.1.7

स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तꣳ होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४.१.७ ॥

那御者找遍了回来说:“我没有找到他。”国王对他说:“喂,去那寻找婆罗门的地方找他吧。”

Chāndogya 4.1.8

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश तꣳ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इत्यहꣳ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति प्रत्येयाय ॥ ४.१.८ ॥

他坐在车下搔着疥癣。遮那室罗缔走近他说:“尊者,您就是名为娑由伽的罗婆吗?”他答道:“是的,我就是。”于是那位御者说:“我知道了”,便转身回去。