奥义书 · Chāndogya 5.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 5.2.1
स होवाच किं मेऽन्नं भविष्यतीति यत्किञ्चिदिदमा श्वभ्य आ शकुनिभ्य इति होचुस्तद्वा एतदनस्यान्नमनो ह वै नाम प्रत्यक्षं न ह वा एवंविदि किञ्चनानन्नं भवतीति ॥ ५.२.१ ॥
他问道:“我的食物将是什么?”他们回答:“这里的一切,从狗到鸟。”这就是食物的食物;“anaḥ”(气息)之名是显而易见的。对于如此知晓的人,没有任何东西会变得不可食用。
Chāndogya 5.2.2
स होवाच किं मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको ह वासो भवत्यनग्नो ह भवति ॥ ५.२.२ ॥
他说:「我的衣服将是什么?」他们说:「水。」因此,将要进食的人前后以水裹身。知道这一点的人获得衣服,不会赤身。
Chāndogya 5.2.3
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ५.२.३ ॥
萨提亚卡玛·阇跋罗对伽舒鲁提·婆雅ghrapadya说了这些:「即使对干枯的柱子说这些,它也会长出枝条,生出叶子。」
Chāndogya 5.2.4
अथ यदि महज्जिगमिषेदमावास्यायां दीक्षित्वा पौर्णमास्याँ रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठा श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५.२.४ ॥
若有人欲求大事,则在新月日受戒,满月之夜,将所有草药与凝乳和蜂蜜混合搅拌,说「向长者、向最胜者献上斯瓦哈」,向火中献澄清黄油,并将滴落之物(sampāta)倒入搅拌物中。
Chāndogya 5.2.5
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत्सम्पदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेदायतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ॥ ५.२.५ ॥
说「向Vasiṣṭha献上斯瓦哈」,向火中献澄清黄油,并将滴落之物倒入搅拌物中;说「为稳固献上斯瓦哈」,同样如此;说「为富足献上斯瓦哈」,同样如此;说「为住所献上斯瓦哈」,同样如此。
Chāndogya 5.2.6
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपत्यमो नामास्यमा हि ते सर्वमिदँ स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः स मा ज्यैष्ठ्यँ श्रैष्ठ्यँ राज्यमाधिपत्यं गमयत्वहमेवेदँ सर्वमसानीति ॥ ५.२.६ ॥
随后,他退回原位,将搅拌好的混合物置于双手掌中,低声诵念:“啊,阿摩,你的名字是阿摩,因为这一切都在你之中。他是长者、至上者、国王与至高主宰;愿他赐予我长者之位、至上之德、王权与主权,使我自己成为这一切。”
Chāndogya 5.2.7
अथ खल्वेतयर्चा पच्छ आचामति तत्सवितुर्वृणीम इत्याचामति वयं देवस्य भोजनमित्याचामति श्रेष्ठँ सर्वधातममित्याचामति तुरं भगस्य धीमहीति सर्वं पिबति ॥ ५.२.७ ॥
随后,他以这一颂,从剩余之物中小口啜饮:念“我们选取萨维特里的那道光明”时啜饮一口;念“我们是神的食物”时啜饮一口;念“最好的、最滋养一切的”时啜饮一口;念“我们默想巴伽的迅捷者”时啜饮一口;然后把剩下的全部喝尽。
Chāndogya 5.2.8
निर्णिज्य कँसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५.२.८ ॥
洗净碗或杯之后,他在火的后方躺下,睡在兽皮上或光地上,保持沉默,控制言语。若他看见女人,应当知道这事业将会成功。
Chāndogya 5.2.9
तदेष श्लोको यदा कर्मसु काम्येषु स्त्रियँ स्वप्नेषु पश्यन्ति समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने तस्मिन्स्वप्ननिदर्शने ॥ ५.२.९ ॥
这便是那颂:当人们在所求之事中于梦中见到女人时,应当在那里知道成功;在那梦兆之中,在那梦兆之中。