Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.7.1

षोडशकलः सोम्य पुरुषः पञ्चदशाहानि माशीः काममपः पिबापोमयः प्राणो नपिबतो विच्छेत्स्यत इति ॥ ६.७.१ ॥

温和的孩子啊,具有十六分的人应当十五日不食;随意饮水。生气(prāṇa)由水构成;你若不饮,它将被切断。

Chāndogya 6.7.2

स ह पञ्चदशाहानि नशाथ हैनमुपससाद किं ब्रवीमि भो इत्यृचः सोम्य यजूँषि सामानीति स होवाच न वै मा प्रतिभान्ति भो इति ॥ ६.७.२ ॥

他十五日不食,然后走近他,说:“先生,我该说什么呢?”——梨俱(ṛc)诗句,温和的孩子啊,夜柔(yajus)祭文,娑摩(sāman)歌。他答道:“先生,我脑中一片空白。”

Chāndogya 6.7.3

तँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात्तेन ततोऽपि न बहु दहेदेवँसोम्य ते षोडशानां कलानामेका कलातिशिष्टा स्यात्तयैतर्हि वेदान्नानुभवस्यशानाथ मे विज्ञास्यसीति ॥ ६.७.३ ॥

他对他说:“温和的孩子啊,正如大火堆烧过之后,只剩萤火虫般大小的一块余烬,用它也烧不了多少;同样,温和的孩子啊,你的十六分之中只剩下一分。因此你现在不能领会吠陀。吃吧,然后你就会理解我。”

Chāndogya 6.7.4

स हशाथ हैनमुपससाद तँ ह यत्किञ्च पप्रच्छ सर्वँह प्रतिपेदे ॥ ६.७.४ ॥

他吃了;然后走近他。凡他问的,他都领会并掌握了。

Chāndogya 6.7.5

तँ होवाच यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६.७.५ ॥

他说:亲爱的孩子,就像大火堆中只剩下一粒萤火虫般大小的余烬,把它放在干草旁吹一吹,便会燃起火焰,并由此还能烧掉更多的东西。

Chāndogya 6.7.6

एवँ सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत्सान्नेनोपसमाहिता प्राज्वालीतयैतर्हि वेदाननुभवस्यन्नमयँहि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६.७.६ ॥

同样,亲爱的孩子,十六分之中只剩下一分,由食物滋养而燃起火焰;你现在正是借着它而体验《吠陀》。亲爱的孩子,心由食物构成,生气由水构成,言语由火构成。他明白了,明白了。