Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 8.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 8.12.1

मघवन्मर्त्यं वा इदꣳ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ ८.१२.१ ॥

摩ghavan啊,这有死的身体被死亡所攫取。它是不死、无身的自我的所居。有身者被喜与忧所攫取;有身者没有去除喜与忧之时。然而当其无身时,喜与忧不会触及它。

Chāndogya 8.12.2

अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८.१२.२ ॥

风、云、闪电、雷鸣是无身的。正如它们从那虚空升起,到达至高光明,并以自己的形态显现,

Chāndogya 8.12.3

एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमपुरुषः स तत्र पर्येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनꣳ स्मरन्निदꣳ शरीरꣳ स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ८.१२.३ ॥

如是,此清澈之我从此身升起,获得至上之光,以其自身之形相显现。那便是至上之人。他在彼处行走,食用、嬉戏、欢乐,或与女人同在,或与车乘同在,或与亲族同在,不再记起他曾有的这个身体。正如被套上轭、用来劳作的牲畜,拴在其劳作之处,这气息(prāṇa)便被拴在此身之中。

Chāndogya 8.12.4

अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय वागथ यो वेदेदꣳ शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ८.१२.४ ॥

此处,这只注视虚空的眼睛所在之处,属于此眼的那人便是用以看见的眼睛。又,知道“我闻此”的那个我,便是用以嗅闻的鼻。又,知道“我说此”的那个我,便是用以言说的语言。又,知道“我听此”的那个我,便是用以听闻的耳。

Chāndogya 8.12.5

अथ यो वेदेदं मन्वानीति सात्मा मनोऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके ॥ ८.१२.५ ॥

又,知道“我思此”的那个我,便是心。其神圣之眼即是心。以此神圣之眼与心,观看这些欲望,他便在其中欢喜,那些在梵界中的欲望。

Chāndogya 8.12.6

तं वा एतं देवा आत्मानमुपासते तस्मात्तेषाꣳ सर्वे च लोका आत्ताः सर्वे च कामाः स सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ८.१२.६ ॥

诸神正是崇拜这同一个我,因此他们获得一切世界与一切欲望。凡证悟此我并完全知晓之人,便获得一切世界与一切欲望。生主如是说,生主如是说。