奥义书 · Chāndogya 8.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 8.8.1
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आनखेभ्यः प्रतिरूपमिति ॥ ८.८.१ ॥
“在盛水的浅碗中看你的ātman,如果你不知道自己的ātman,就告诉我。”那两人便向盛水的浅碗中看去。生主问:“你们看见了什么?”他们说:“尊者啊,我们两人看见了自己的ātman,从头发到指甲,完全如其精确的映像。”
Chāndogya 8.8.2
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८.८.२ ॥
生主对他们二人说:"你们要好好装饰自己,穿上华美的衣服,整理好仪容,然后看看盛水的器皿。"二人便好好装饰,穿上华美的衣服,整理好仪容,去看水中。生主问道:"你们看见了什么?"
Chāndogya 8.8.3
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतावित्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८.८.३ ॥
二人说:"尊者啊,正如我们两人装饰得好,穿着华美,整理得体,那水中的这两个人,尊者啊,也装饰得好,穿着华美,整理得体。"生主说:"这就是我(ātman)。这就是不死,这就是无畏,这就是梵(brahman)。"于是二人心静地离去了。
Chāndogya 8.8.4
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमनुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वासुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ८.८.४ ॥
生主看见二人在未觉知和未学习自我(ātman)的情况下离去,便说:"你们二人中无论谁遵循此教义,无论是神还是阿修罗,都将败落。"于是毗卢遮那心静地去见阿修罗,向他们传授此教义:"在这里,唯有自我(ātman)值得尊敬,唯有自我值得侍奉。尊敬并侍奉自我的人,同时得到此世与彼世两个世界。"
Chāndogya 8.8.5
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणाꣳ ह्येषोपनिषत्प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सꣳस्कुर्वन्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ८.८.५ ॥
所以至今人们若见接受施舍、没有信心、不行祭祀的人,便说:"他真是阿修罗。"这种教义属于阿修罗。他们用施舍、衣服和装饰来打扮死者的身体,以为这样便能征服那个世界。