Vedyatra वेदयात्रा
搜索

奥义书 · Taittirīya 3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Taittirīya 3.1

भृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तस्मा एतत्प्रोवाच । अन्नं प्राणं चक्षुः श्रोत्रं मनो वाचमिति ।
तँ होवाच । यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद् ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ ३.१ ॥

婆利古(Bhṛgu)是伐楼那之子,他走近父亲伐楼那,说:“尊者,请教我梵。”伐楼那向他宣示:食物、生气、眼、耳、意、言语。并对他说:“去求知那使这些众生生起的,他们生后借以生存,离去时归入的——那就是梵。”他修行苦行。修行苦行之后,

Taittirīya 3.2

अन्नं ब्रह्मेति व्यजानात् । अन्नाद्ध्येव खल्विमानि भूतानि जायन्ते । अन्नेन जातानि जीवन्ति । अन्नं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति स तपोऽतप्यत ।
स तपस्तप्त्वा ॥ ३.२ ॥

他领悟到:“食物即梵。”的确,这些众生从食物生起,依靠食物而生存,离去时又归入食物。领悟此理后,他再次走近父亲伐楼那,说:“尊者,请教我梵。”伐楼那对他说:“通过苦行去求知梵;苦行即是梵。”他修行苦行。

Taittirīya 3.3

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव खल्विमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ ३.३ ॥

他领悟到:“生气即梵。”的确,这些众生从生气生起,依靠生气而生存,离去时又归入生气。领悟此理后,他再次走近父亲伐楼那,说:“尊者,请教我梵。”伐楼那对他说:“通过苦行去求知梵;苦行即是梵。”他修行苦行。修行苦行之后,

Taittirīya 3.4

मनो ब्रह्मेति व्यजानात् । मनसो ह्येव खल्विमानि भूतानि जायन्ते । मनसा जातानि जीवन्ति । मनः प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय । पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ ३.४ ॥

他了解到心即梵,因为这些众生确实从心而生,依心而活,并且归入于心。明白这一点后,他再次走近父亲婆officials伐楼那,说:“尊敬的老师,请教我梵。”他对他说:“你要通过苦行去探求梵;苦行即是梵。”他便修苦行。修苦行之后……

Taittirīya 3.5

विज्ञानं ब्रह्मेति व्यजानात् । विज्ञानाद्ध्येव खल्विमानि भूतानि जायन्ते । विज्ञानेन जातानि जीवन्ति । विज्ञानं प्रयन्त्यभिसंविशन्तीति ।
तद्विज्ञाय पुनरेव वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेति । तँ होवाच । तपसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति ।
स तपोऽतप्यत । स तपस्तप्त्वा ॥ ३.५ ॥

他了解到识(vijñāna,辨别之知)即梵,因为这些众生确实从识而生,依识而活,并且归入于识。明白这一点后,他再次走近父亲伐楼那,说:“尊敬的老师,请教我梵。”他对他说:“你要通过苦行去探求梵;苦行即是梵。”他便修苦行。修苦行之后……

Taittirīya 3.6

आनन्दो ब्रह्मेति व्यजानात् । आनन्दाध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तीति ।
सैषा भार्गवी वारुणी विद्या । परमे व्योमन्प्रतिष्ठिता । स य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ ३.६ ॥

他了解到喜乐(ānanda)即梵,因为这些众生确实从喜乐而生,依喜乐而活,并且归入于喜乐。这就是婆伽婆-伐楼那之知,安立于至高的虚空之中。如此知晓者便得安住。他成为拥有食物、享用食物者;他因子嗣、牲畜、梵的光辉而伟大,也因名声而伟大。

Taittirīya 3.7

अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्नम् । शरीरमन्नादम् । प्राणे शरीरं प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्नमन्ने प्रतिष्ठितम् ।
स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ ३.७ ॥

不应诋毁食物,这是誓愿。生命气息(prāṇa)确实就是食物,身体是食用食物者。身体依于生命气息而立,生命气息依于身体而立。此食物依于食物而立。知道此食物依于食物而立者便得安住。他成为拥有食物、享用食物者;他因子嗣、牲畜、梵的光辉而伟大,也因名声而伟大。

Taittirīya 3.8

अन्नं न परिचक्षीत । तद्व्रतम् । आपो वा अन्नम् । ज्योतिरन्नादम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः ।
तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान् कीर्त्या ॥ ३.८ ॥

不可轻视食物,这是誓戒。水即是食物,光明是食用食物者。光明立足于水中,水立足于光明中。此食物立足于食物之中。知此食物立足于食物中者,便得安立。他成为拥有食物、享用食物者;因子嗣、牲畜、梵之光辉与名声而变得伟大。

Taittirīya 3.9

अन्नं बहु कुर्वीत । तद्व्रतम् । पृथिवी वा अन्नम् । आकाशोऽन्नादः । पृथिव्यामाकाशः प्रतिष्ठितः । आकाशे पृथिवी प्रतिष्ठिता ।
तदेतदन्नमन्ने प्रतिष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन महान्कीर्त्या ॥ ३.९ ॥

应多多生产食物,这是誓戒。大地即是食物,虚空是食用食物者。虚空立足于大地中,大地立足于虚空中。此食物立足于食物之中。知此食物立足于食物中者,便得安立。他成为拥有食物、享用食物者;因子嗣、牲畜、梵之光辉与名声而变得伟大。

Taittirīya 3.10

न कञ्चन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमित्याचक्षते ।
एतद्वै मुखतोऽन्नँराद्धम् । मुखतोऽस्मा अन्नँराध्यते । एतद्वै मध्यतोऽन्नँराद्धम् । मध्यतोऽस्मा अन्नँराध्यते । एदद्वा अन्ततोऽन्नँराद्धम् ।
अन्ततोऽस्मा अन्नँराध्यते
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ ।
इति मानुषीः समाज्ञाः । अथ दैवीः । तृप्तिरिति वृष्टौ । बलमिति विद्युति
यश इति पशुषु । ज्योतिरिति नक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान् भवति ।
तन्मह इत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्मवान्भवति । तद्ब्रह्मणः परिमर इत्युपासीत ।
पर्येण म्रियन्ते द्विषन्तः सपत्नाः । परि येऽप्रिया भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः
स य एवंवित् । अस्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपसङ्क्रम्य । एतं प्राणमयमात्मानमुपसङ्क्रम्य । एतं मनोमयमात्मानमुपसङ्क्रम्य ।
एतं विज्ञानमयमात्मानमुपसङ्क्रम्य । एतमानन्दमयमात्मानमुपसङ्क्रम्य । इमाँल्लोकन्कामान्नी कामरूप्यनुसञ्चरन् ।
एतत् साम गायन्नास्ते । हा ३ वु हा ३ वु हा ३ वु
अहमन्नमहमन्नमहमन्नम् । अहमन्नादो३ऽहमन्नादो३ऽअहमन्नादः । अहँश्लोककृदहँश्लोककृदहँश्लोककृत् । अहमस्मि प्रथमजा ऋता३स्य ।
पूर्वं देवेभ्योऽमृतस्य ना३भायि । यो मा ददाति स इदेव मा३ऽऽवाः । अहमन्नमन्नमदन्तमा३द्मि । अहं विश्वं भुवनमभ्यभवा३म् ।
सुवर्णज्योतीः । य एवं वेद । इत्युपनिषत् ॥ ३.१० ॥

任何人不应在自己的住所被拒绝。这便是誓愿。因此,无论以何种方式,都应得到大量食物。人们说:愿为他准备食物。 此食物确实由口烹煮;由口,为他准备食物。此食物确实由中间烹煮;由中间,为他准备食物。此食物确实由末端烹煮;由末端,为他准备食物——对于如此知者。在言语中有“安稳”(kṣema);在出入息中有“获得与守护”(yogakṣema);在双手中有“行为”(karma);在双足中有“行进”(gati);在肛门中有“解脱”(vimukti)。这些是人的名称。现在说神圣的:在雨中有“满足”(tṛpti);在闪电中有“力量”(bala);在牲畜中有“荣耀”(yaśas);在星辰中有“光明”(jyotis);在生殖器中有“子嗣、不死、喜乐”(prajāti, amṛta, ānanda);在虚空中有“一切”(sarva)。应当将其观想为“依止”(pratiṣṭhā);他便得以稳固确立。应当将其观想为“伟大”(mahas);他便成为伟大。应当将其观想为“意”(manas);他便具有意。应当将其观想为“敬礼”(namas);诸欲便向他俯首。应当将其观想为“梵”(brahman);他便成为具有梵者。应当将其观想为梵的“周护”(parimara);在他周围,怨恨的敌对者与不友善的仇人都死去。居于此人者与居于太阳者——二者为一。如此知者,离开此世,便趋近这由食物构成的自我,趋近这由气息构成的自我,趋近这由意构成的自我,趋近这由识构成的自我,趋近这由喜乐构成的自我。他遍行于这些世界与诸欲之中,随意取任何形态,并如此歌唱此娑摩:哈 ३ 吴,哈 ३ 吴,哈 ३ 吴。我是食物,我是食物,我是食物。我是食食者,我是食食者,我是食食者。我是作偈者,我是作偈者,我是作偈者。我是宇宙秩序的长子,先于诸神,生于不死的脐中。给予我的人,正是保护我的人。我食用食物;吞食那食用食物者。我已征服整个世界。金色之光。如此知者。这是《奥义书》。